________________
अष्टचत्वारिंशोऽध्यायः
द्वादशन्तु कलां विष्णुर्धनदश्च त्रयोदशीम् । चतुर्दशीं पशुपतिः कलां पिवन्ति नित्यशः ॥ १४ ॥ तत पञ्चदशीञ्चैव पिवन्ति पितर कलाम् । कलावशिष्टो निष्पीतः प्रविष्टः सूर्य मण्डलम् ॥१५॥ मायां विशति रश्मी श्रमावासी ततः स्मृता ।
पूर्वाह्न प्रविशत्यकं मध्याह्न तु वनस्पति । अपराह्णे विशत्यप्सु स्वयोनि वारि सम्भवः २ ॥१६॥ श्रापः प्रविष्ट सोमस्तु शेषया कलयैकया । तृण गुल्म लता वृक्षान् निष्पादयति चौषधीः ॥ १७॥ तमोषधिः स्थितं गावश्चरत्योऽपः पिवन्ति च । तदङ्गानुगतं गोभ्यः क्षीरत्वमुपगच्छति ॥ १८ ॥ तत् क्षीरसमवृतं भूत्वा मन्त्रपूतं द्विजातयः । स्वाहाकारवषटकारैः जुह्वत्या' हुतयः क्रमात् ॥१६॥ हुतमग्निषु देवाय पुनः सोमं विवर्द्धयेत् । एवं संक्षीयते सोमः क्षीणश्चाप्यायते पुनः । तस्मात् सूर्य्यः शशाङ्कस्य क्षयवृद्धि विधेद्विभुः ॥२०॥
इति श्री देवीपुराणे चन्द्रक्षयवृद्धिनम अष्टचत्वारिंशोऽध्यायः ॥
१८५
१. विशते क ग ।
२. पूर्वा प्ररि शत्यंर्क मध्याहे तु वनस्यति क ।
४. जुह्याद्या क । ५. अगिनश्चः
७. इत्याद्ये देव्यवतारे चन्द्रक्षयवृद्धिः क ग ।
我:
३. अपरान्हे क ।
६. क पुस्तके पंक्ती नं सन्ति ।