SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ अष्टचत्वारिंशोऽध्यायः। ब्रह्मोवाच । राका चानुमती चैव द्विविधा पूर्णिमा तथा' । सिनोऽवाली कुहुश्चैव अमावस्या द्विधैव तु ॥१॥ . अमा नाम रवे रश्मिश्चन्द्रलोके प्रतिष्ठिता । यस्मात् सोमो वसत्यस्मात् अमावासी ततः स्मृताः ॥२॥ पूर्वोदिते कलाभिन्ने पौर्णमास्यां निशाकरे। पूणिमानुमती ज्ञया यश्चास्तमित भास्करे ॥३॥ यस्मात् तामनु मन्यन्ते देवता पितृभिः सह । तस्मादनुमती नाम पूर्णिमा च तदा स्मृता ॥४॥ यदा चास्तमिते सूर्ये पूर्णचन्द्रस्य चोद्गमः । युगपत् सोत्तरा राका तदानुमति-पूविका' ॥५॥ राका तामनुमन्येते देवताः पितृभिः सह । रञ्जना चैव चन्द्रस्य राकेति कवयोऽब्रुवन् ॥६॥ सिनी वाली प्रमाणन्तु क्षीण शेषो निशाकरः । अमावस्यां विशेत्यर्क सिनीवाली ततः स्मृताः ॥७॥ कुह्वति कोकिलेनोक्त यः कालस्तु समाप्यते । तत्तत्काल संज्ञा त्वेषा वै अमावस्या कुहुः स्मृता ।। अनुमत्या सराकाया सिनी वाल्या कुहु विना । एतासां द्वि-नवः कालः कुमात्रेति कुहुः स्मृताः ॥६॥ कलाः षोडश सोमस्य शुक्ले वर्द्ध यते रविः । अन तेनामृतं कृष्ण पीयन्ते दैवतैः क्रमात् ॥१०॥ प्रथमां पिवते वलि द्वितीयां तपनः कलाम् । विश्वे देवास्तृतीयान्तु चतुर्थीन्तु प्रजापतिः ॥११॥ पञ्चमो वरुणाश्चापि षष्ठि पिवति वासवः । सप्तमोमृषयो दिव्या वसवोष्टौ तथाष्टमीम् ॥१२॥ नवमी कृष्णपक्षस्य पिवतीन्द्रः कला मपि । दशमी मरूतश्चापि रुद्रा एकादशी कलाम् ॥१३॥ १. स्मृता क। ४. यदास्तमते क। ७. कुहेति क। ६. पिवतीचन्द्रः कलामपि क । २. पूर्णमास्यां क ग । ५. पूर्णिमा: क ग । ८. पल्क्तालस्तु क। ३. प्रथमा क। ६. करयोब्र वत् क ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy