________________
१७८
षट्चत्वारिंशोऽध्यायः
ध्रुवो धवश्च' सोमश्च श्रापश्चैवानिलोऽनलः । प्रत्यूषश्च प्रमाणश्च वसवोऽष्टौ प्रकीर्तिता ॥ १३ ॥ ना सत्यश्चैव दस्त्रश्च स्मृतौ द्वावश्विनौ अपि । विश्वेदेवान् प्रवक्ष्यामि नामतस्तान् निवोध मे ॥ १४॥
क्रतुर्दक्षः सुरः सत्यः कामः कालो धृतिः कुरुः । मनुमान् रोचमानस्तु विश्वेदेवा दशस्मृता ॥ १५॥ वर्त्तमाना इमे देवाः शृणु मन्वन्तरो भवान् । यामाश्च तुषिताश्चैव तथैव वशवर्त्तिनः ॥१६॥
सत्या अद्भुत रजसः साध्याश्च तदनन्तरम् । षट्सु मन्वन्तरेष्वेते देवा द्वादश द्वादश ॥ १७॥ याम्या गतास्तथा त्वन्ये सत्यः " " सतुषितैः सह ।
११ एते यशभुजो " " देवा नित्यं यज्ञ प्रतिष्ठिताः ॥ १८ ॥
श्रतीतान् वर्त्तमानांश्च' 'पुनश्चापि निबोध मे । श्रादित्या मरुतो रुद्राः कश्यपस्यात्मजाः स्मृताः | १६ | विश्वेऽथ वसवः साध्या बिज्ञेया धर्म्मसूनवः १५ ।
एवं धर्म्मसुतः सोमस्तृतीयो वसुरुच्यते १६ ॥२०॥
धर्मोऽपि ब्रह्मणः पुत्रः पुराणे निश्चयो मतः । श्रथ इन्द्रान् मनुश्चैव नामभिस्तु निवोध मे ॥२१॥ स्वायम्भुवो मनुः पूर्व्वं ततः स्वारोचिषः स्मृतः । श्रौत्तमस्तामसश्चैव रैवत' 'श्चाक्षुषस्तथा ॥ २२ ॥ इत्येते षडतिक्रान्ता सप्तमः साम्प्रतो' 'मनुः । वैवस्वत इति ज्ञयो भविष्याः सप्त चापरे ॥२३॥
१. धरो धवश्च क ग । २. स्कृतीक ।
३. द्वावश्विनावपि क ग ।
६. कालोष्टति: क ।
४ विश्वेदेवान् प्रवक्ष्यान्निबोधमे क ग ।
५. स्रवः क ।
७. शृरण मचंतरे क ।
८. प्रभूतक ।
६. पट्सु क ग ।
१०. सत्याः क ग ।
११. साध्यान्देवान् प्रवक्ष्यामि नामतस्तथा निवेोधये चित्तित्तं रोहरश्चैव हंसो धर्म्मश्च वीर्य्यवान् । विभुश्चापि
१२. यज्ञ भुजो क ग ।
प्रभुश्चैव साध्या द्वादश कीर्तिताः क ग ।
१३. प्रतीता च क ग ।
१६. रुच्याते क ।
१७. चारोचिषः क ।
१४. विश्वे सवः क ग । १५. सूत्रवः ख ।
१८. श्वेतख । १९. विश्वचेत् कग । सप्तमसा : सांप्रतं मनुः क ।