________________
१७६
देवीपुराणम् - तेषामाद्योऽर्क'साणिः धर्मसावगिरेव च । तस्माच्च भवसावणिः ब्रह्म सावणि रित्यतः ॥२४॥ पञ्चमो दक्षसावणिः सावर्णाः पञ्च कीर्तिता । रोच्यो भौत्यश्च द्वावन्यौ इत्येते मनवो मताः ॥२५॥ इन्द्रश्च विश्चभुक ज्ञ यो विपश्चित् तदनन्तरम् । विभुः प्रभुः शिखि चैव तथैव च मनोजवः ॥२६॥
प्रोजस्वी साम्प्रतस्त्विन्द्रो बलिर्भाव्यस्त्वनन्तरम् ।
अद्भुतस्त्रिदिवा चैव दशमस्त्विन्द्र उच्यते ॥२७॥ सुशान्तिश्च सुकीर्तिश्च ऋतधामा दिवस्पतिः । इति भूता भविष्याश्च इन्द्रा ज्ञेयाश्चतुर्दश ॥२८॥ काश्यपोऽत्रि वशिष्ठश्च भरद्वाजोऽथ गौतमः । विश्वामित्रो जमदग्निश्च सप्तैते ऋषयः स्मृताः ।२९। अतः परं प्रवक्ष्यामि मरुतोऽग्नीन् पितृन् ग्रहान् । प्रवहो निवहश्चैव उद्भव संभवस्तथा ॥३०॥ प्रवाहो विवहश्चैव परिवाहस्तथैव च । अन्तरीक्षे चरा ह्यते पृथङमार्ग विचारणाः ॥३१॥
महेन्द्रप्रविभक्ताङ्ग मरुतः सप्त कीत्ति ताः ।
सूर्याग्निश्च शुचिर्नाम्ना वैद्य तः पावकः स्मृता ॥३२॥ निर्मथ्यः पवमानोऽग्निस्त्रयः प्रोक्ता इमेऽग्नयः। अग्नीनां पुत्र पौत्राश्च चत्वारिंशत् तथैव तु ॥३३॥ मरुतामपि सर्वेषां विज्ञेयाः सप्त सप्तकाः । एवं संवत्सरो ह्यग्नि तवस्तस्य जज्ञिरे । ॥३४॥ ऋतुपुत्रार्तवाः१२पञ्च इति सर्गः१३ सनातनः। संवत्सरश्च प्रथमो द्वितीयः परिवत्सर ।
सांवत्सरस्तृतीयस्तु चतुर्थस्त्वनु वत्सरः ॥३५॥ पञ्चमो वत्सरस्तेषां तदेभिः पञ्चभियुगम् । तेषु संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः ॥३६॥
सोम इद्वत्सरस्तेषां वायुश्चैवानु वत्सरः । रुद्रस्तु वत्सरो ज्ञ यः पञ्चाब्दा ये युगात्मकाः । द्वादशं पञ्चधा भिन्नाः षष्टिभेदा गुरोर्गमात्१५ ॥३७॥
१. तेषामात्मोर्क क ग । ३. तस्माच सावरिण क ग । ६. विपश्चित्यादनंतरं क ग । ६. विभदः संभवश्व क ग । १२. आत्तावा क। १४. इद्वत्सर क ग ।
२. ब्रह्म क ग। ४. विद्यतः क ७. दिवाचैव क ग । १०. परमग्नि स्त्रयः क । १३. सङ्कः क ग। १५. गुरोर्गमाः क।
५. ताभ्यश्च क ८. द्विजपति ख। ११. यज्ञिरे क।