________________
१७३
देवीपुराणम् नवम्यां' कुजवारेण कुम्भ संस्थे तु भास्करे । कृष्णपक्षे तु यामाद्ध अमयो विनिपातितः ॥६६॥
गणाः सम्पूजिता देव देवी च विधिना ततः । सर्व वाधा विनिर्मुक्ता देवा याता नृपास्तथा । पूजा स्नानं तथा दानं कृतमेतेषु कामिकम् ॥६७॥
इति श्री देवीपुराणे देव्यवतारे त्रैलोक्याभ्युदयेऽमयवधो नाम त्रिचत्वारिंशोऽध्यायः ।
१. क पुस्तके न सन्ति ।
२. इत्याद्य त्रैलोक्याभ्युदये अमयवधः ग ।