SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ चतुश्चत्वारिंशोऽध्यायः । मनुरुवाच । न्यस्त राज्यस्तदा तात गजाननोऽपि स्वस्थानं गतो मालव्य भूधरम । रामोऽपि पृथिवों जित्वा द्विजदेवेषु विन्यसेत् ॥ १॥ देवीनां कारयेत् पुरम्' । सागरान्ते महापुण्यं यशोदण्डमहार्णवे ॥२॥ तत्रस्थामानयेद् देवीं कालिका कालनाशिनीम् । अयोध्यायां महादेवी तेन सा सन्निवेशिता ॥३॥ तदंशा पूर्व्वमाख्याता या दुर्गा नव कीर्त्तिताः । महोदये महावाही ये चान्ये वैदिशे स्थिता ॥४॥ मृत्युञ्जयं महापुण्यं यत्र सन्निहितः शिवः । भृगुणा पूजिता देवी सा वै कालिका मता ॥५॥ रामेण जामदग्येन सर्व्वकाम समृद्धये । तथान्येऽपि ये च वात्र देवी भक्ता यजन्ति च ॥ ६ ॥ ते विद्यायुर्यशोऽर्थादि सुखं प्राप्नोत्यनुत्तमम् । कामिकं ' कामिका देवी ददयाद् वै मलयालये ॥७ ॥ मन्दाक्ष दापयेदेव सर्व्वकामास्तु अम्बिका । तारा मन्दार शिखरे कामिकं ददते फलम् ॥ ८ ॥ वैरोचनेन दनुना कन्याद्ध चन्द्र 'पर्व्वते । पञ्चमूर्तिगता देवी पूजिता सर्व्वकामदा ॥६॥ मेधा गौरी यथा 'यक्षी' 'ज्वालास्या विन्ध्यवासिनी । पूजिता संस्तुता ब्रह्मन् सर्व्वकामफलप्रदा ॥ १०॥ किष्किन्ध्ये भैरवी देवी सर्व्वकामान् प्रयच्छति । विन्ध्ये विन्ध्यावटी नाम पूजिता तल सम्वरे । ११ । पञ्चास्था' 'पूजिता देवी अपमृत्युं व्यपोहति । एवं संस्थान रूपेण पूजिता तारितात्मभिः ॥ १२ ॥ सर्व्वकामप्रदा तात भवेत् सर्व्व सुखावहा २ ॥१३॥ इति श्री देवीपुराणे देव्यवतारे त्रैलोक्याम्युदये देव्या महाभाग्यं नाम चतुश्चत्वारिंशोऽध्यायः ॥ १. पुनः ख । ४. वैदिको स्थितो क । २. भटुस्था क । ५. विगुरणा क । ७. क पुस्तके न सन्ति । गन्धार शिखरे ग । ६. यतथा क | १०. पक्ती क । ११. पंकास् क ग । १२. तवेत् स सुखावहा क ग । ३. सासत्तिवेता कग | ६. कामितं क ग । ८. कल्पसे श्री क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy