________________
१६८
द्विचत्वारिशोऽध्यायः वैदिशे मध्यगा देवी सिंहयाने व्यवस्थिता । उर्ध्वं जयावहा देवी महाकालीति विश्रुता ॥११॥ परा जम्बुकनाथस्य' वह्णिभागगता मुने । भद्रकालीति विख्याता महालक्ष्मी गिरौ स्मृता ॥१२॥
यत्र सा साधिता विद्या पदमाला विराजिता ।
____ मृत्युञ्जयात् तथा चान्या नन्दिकेशो यथाप्तवान् ॥१३॥ रात्रौ जप्ता महाबाहो सा विद्या शशिनः क्षये। विनाशयेन् महामृत्युमपमृत्यं न संशयः ॥१४॥ कलां कलां यदा चन्द्रो गच्छते रवि मण्डलम् । तदा विद्यां जपेद्रात्रौ दिवाचन्द्र विद्धिते ॥१५॥ जरामत्यु भयं घोरं ब्रह्म हत्यादि पातकम् । शमते सा नासन्देहो विद्या जप्ता महामुने ॥१६॥
इति श्री देवीपुराणे स्थान प्रशंसा नाम द्विचत्वारिंशोऽध्यायः ।
१. पराजधुकनापस्य क गां
२. पराजिता क ग।
३. पातके क।
४ इत्यादे देव्यवतारे स्थान प्रशंसा-ग