________________
द्विचत्वारिंशोऽध्यायः ।
वशिष्ठ उवाच । चन्द्रशे चोग्रकृष्णे च हते तस्मिन् महाबले ।
देवास्तुष्टास्तदा देवी पूजया वाग्भिः सान्त्वयन्' ॥१॥ त्वं देवी परि रक्षा नो ब्रह्मादीनां भयाण वे । यथा कृष्ण महाघोरः क्रीडया विनिपातितः ॥२॥ त्वं वुद्धिः शुद्धिर्मेधाश्च कान्तिप्तिमतिर्यशः । रक्षा च परमा देवी विष्ण्विन्द्र द हिणादिषु ॥३॥ रक्षणाय नृपाणाञ्च म] त्वं देवी पूजिता । जालन्धरे महादेवी पीठस्थान गता शिवा ॥४॥ त्वदेशगा स्त्रियो देवी भविष्यन्ति वरप्रदाः। भक्तानामभयदाः सर्वकाम फलप्रदा ॥५॥ युगानुरुपधर्मेण धम्मिनां कामदायिकाः । स्थाने स्थाने भविष्यन्ति दृष्टादृष्ट प्रसाधिकाः ॥६॥ मलये सह्यविन्ध्ये च हिमवत्यर्बुदादिषु । चित्र गोपे नरे काले नीचाख्ये पर्वते तथा ॥७॥
__ लङ्कायाञ्चोदेशे च स्त्रीराज्ये काशिकावने ।
कामरूपे तथा काञ्च्यां चम्पायाश्चाथ वैदिशे
वरेन्द्र चोद्रियाणे च मलाख्ये शिखरे तथा ॥८॥ नवदुर्गा स्थले जले चोले हैरण्ये कनकाकरे। सिंहले वेणुदन्डे च कर्णकुब्जे च वैदिशे ॥६॥ नवदुर्गास्थले कृत्वा त्रिमुण्डास्तत्र क्रोत्तिता । देव्याः सर्वार्थ दातारः सर्वकाम फलप्रदाः ॥१०॥
२. द्धद्धेरिपव क ।
१. चाभिः सांत्वयत् क । ३. कामदात्मिका का ४. चरिष्यति क ग। ५. लवेकाले क ग । ७. लपाकेयोष्ट्रदेशे क। ६. कश क ग ।
६. नायाख्ये क। ८. चले क ग ।