________________
एकचत्वारिंशोऽध्यायः।
शौनक उवाच । उग्रसेने हते तात किं कुर्यात् स महासुरः । कृष्णधर्मा महाबाहो तन्मे ब्रूहि महामुने ॥१॥
मनुरुवाच । हते चोगे तदा क्रुद्धः कृष्णधर्मा महासुरः । वाले महाहवं चक्र ब्रह्मन्द्र परि रक्षसे' ॥२॥ एवं स तज्जयित्वा तु देवी चक्र णाताडयत् । सिहं पंचेषुभिभित्त्वा पुनर्देवीं व्यताडयत् ।
देको क्र दुधा तदा वत्स कृष्णं वज्रणऽताडयत् ॥३॥ वज्राहतं तदा कृत्वा रथोपस्थगतं तथा । तदा द्रुतं समाधावद् देव्या दण्डकरोद्यतः ४॥॥ प्रायान्तं तं शरैर्देवी पञ्चभिर्यमसादनम् । प्रेषयामास संक्र धा तदा कृष्णस्य सारथिम् ॥५॥ हते कृष्ण रथाधारे कृष्णधा महाबलः। पादस्थश्चक्रमादाय देव्याः स संमुखौ ययौ ॥६॥ प्रायान्तं तं महाबाहुं शरैः सन्नत पर्वभिः। विध्यहृदि शिरस्तस्य चक्रघातेनापातयत् ॥७॥ एवं तु कृष्णधर्माणं महाबल पराक्रमम् । सङ्गरे निहतं वत्स ब्रह्मन्द्र परिरक्षितम् ॥८॥
इति श्री देवीपुराणे देव्यवतारे कृष्णधर्मवधो नामैक चत्वारिंशोऽध्यायः ॥
.
२. संग्रामे क ग ।
१. यदि ग। ३. कृष्णधर्म वधः क ग।