SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् १६५ मुण्डं संपीडयेदेवी 'उग्रसेनस्य नायकम् । ततस्तं पीडितं दृष्ट्वा उग्रसेनश्च दानवः ॥१४॥ इन्द्राय प्रेषयत् शक्ति यमदण्डसमप्रभाम् । इन्द्रोऽपि वज्रनाराचैर्बहुधोग्रमताडयत् ॥१५॥ उग्रसेनस्तदा क्रुद्ध इन्द्र खड्गेन ताडयेत् । खड्गाहतस्तदा चेन्द्रो गजोपरि निषण्णवान् ॥१६॥ देवी दृष्ट्वा तदा चन्द्र मूच्छितं व्रणविह्वलम् । उग्रसेनस्य संक्रद्धा आग्नेयास्त्रं प्रयुक्तवान् ॥१७॥ तेनाहतस्तदा उग्रो दह्यमानः सस्यन्दनः । वारुणं प्रेषयामास शमाय ज्वलनापहम् ॥१८॥ वायव्यं प्रक्षिपद्देवी तदा वारूण शान्तये। विक्षिप्तमेघसंघातं भग्नपादपभूधरम् ॥१६॥ मृगारुढं तदा देवं पाशाङ्क श करोद्यतम् । वेष्टयित्वा तु तं चौग्रं महाबल पराक्रमम् ॥२०॥ उग्रसेन बलं हत्वा स च पाशेन पाशितः । अस्य शरासनं छित्वा हत्वा चोग्रो निपातितः ॥२१॥ इति श्री देवीपुराणे त्रैलोक्याम्युदये उग्रसेनवघो नाम चत्वारिंशोऽध्यायः । २. श्लोकद्वयं नास्ति ग पुस्तके १. संपीडय कग। ३. माजंज्व सुंनापहं क। ४. इत्याद्ये त्रैलोक्याभ्युदये उग्रसेनवधः क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy