________________
चत्वारिंशोऽध्याय ।
उवाच । महाधर्मासुरो ब्रह्मन् केनोपायेन ब्रह्मणा' । निज्जितो युद्ध शौण्डस्तु सर्वदेव भयङ्करः ॥१॥
एतत् कौतुहलं देव श्रोतुमिच्छामि तत्त्वतः ।
मनुरुवाच । कौञ्चारः स्थानमिन्द्रस्य तपो विघ्न समुत्थितम् ॥२॥ होमावसानिकं घोरमसुरं कृष्ण धम्मिणम् । तं दृष्ट्वा महती पूजां कृत्वा चामुण्डाभैरवैः ॥३॥ धातुर्महेति पूजायां महाधर्मा ततः स्मृतः । पूर्व देवासुरे युद्धे तारकेण महात्मना ॥४॥
आराध्य भगवद्विष्णु द्वादशाख्य महान तैः । क्रतु भागवतै म मार्गाद्य रुज पश्चिमः ॥५॥ तोषितो वासुदेवस्तु सर्वदेववधैषिणा । ततस्तस्य वरो दत्तस्तेन धर्ममहासुरः ॥६॥ साहाय्यं संगरे तात करिष्यति ममाज्ञया । स तदा विष्णोरादेशात् वरलब्धो महासुरः ॥७॥ समादिशति धर्माख्यं स ब्रह्मन्द्रो व्यमोहयत् । एवं तस्य समादेशान्महाधर्मा सुहृष्टवान् ॥८॥ स चक्राङ्गमादाय द्र हिरणस्य विनाशने । गतवान् यत्र सेन्द्रस्तु ब्रह्मा तिष्ठति सोऽसुरः ॥६॥ रुद्राराधन युक्तात्मा कृष्णाष्टम्यां फलार्थिनः । ततस्तस्य महायुद्धमभवच्छरदां शतम् ॥१०॥ सन्नद्धानां तदा तस्मिन् सुरासुर जिघांसया । तावत् स्यन्दनमारुढमुग्रसेनं महासुरम् ॥११॥ दृष्ट्वा वलं तदा तेषां देवी ब्रह्मणे चिन्तिता । भारं परं समास्थाय सर्वदेव नमस्कृता ॥१२॥ प्रागता क्षण मात्रेण उग्रसेन वधषिणी । विनियुक्ता तु संपूज्य वधाय दनुसत्तमे ॥१३॥
२. क्रौचा वेत्रारमित्राद पतयो विद्य समुत्थितं क ।
१. व्रणा क। ३. शमै क। ४. लब्ध दंडो महासुरा क ग । ६. दृष्ट्वा महावलं तात क ग।
५. दश क ग ।