________________
त्रिचत्वारिंशोऽध्यायः ।
शौनक उवाच ।
कथं विद्या तु सा प्राप्ता'नन्दिना वृषवाहनात् । कथं तां लभते तात सोमो नन्दि सकाशतः ॥ १ ॥ एवं सर्व्वं यथान्यायं कथयस्व महामुने ।
मनुरुवाच ।
महादेवी त्विदं घोरं हत्वा देवेन विष्णुना ॥ २ ॥
दत्तापराजिता चन्द्र े तेन चन्द्रे बुधे पुनः । क्रमात पुरुषेभ्यः प्राप्तां यावत् पाण्डुसुतादयः ॥ ३ ॥ तथा सा कीत्तिता लोके सर्व्वकाम प्रसाधिका । पदमाला महावाहो घोर युद्ध प्रकाशिता ॥४॥ पुष्पाख्या मृत्युनाशाय नन्दिने मृत्युहा मुने । दत्ता विद्या महावाहो तेन रामस्य कीर्तिता ॥५॥ श्रमयं नाशनार्थाय तेन जप्ता महात्मना । येन पूर्वा जिता देवा ब्रह्माद्या बहुधा युधि ॥६॥ शशाप कालिका क्रुद्धा विप्रशस्य वधैषिणम् । महासुर सुरत्रास यथा त्वं विध्न वाहिनीम् ॥७॥ वाधसे विधनकोपेन तदा त्वं पशुना हतः । शम कोप समुद्भ ते वह्नौ दाहं गमिष्यसि ॥ ८ ॥ एवं पूर्व्व स शापेन मय: शापितोऽसुरः । जय्याख्यं ' पर्व्वतं गत्वा चचार दुश्चरं तपः ॥ ॥ फलमूल कणाहारः पर्णाशः अथवाभ्युदः । जपहोम क्रियासक्तः केशवाराधने रतः ॥ १०॥ रौहिण्य व्रत भूयिष्ठः समचित्तः समाधिगः । चचाल तपसा देवान् प्रभुताद्धं मरुद्गणान् ॥११॥ क्षात्रं व्रतं समाधाय तावत् तुष्टो जनार्दनः । श्रजयस्तवं महावाहुं देवासुर भयङ्करः ॥१२॥ भविष्यसि न सन्देहो नाशं व्यूहे वजिष्यसि । पञ्चत्रिंशत् क्रमाद वाहं भित्त्वा गत्वासुराधिप ॥ १३ ॥
£
न योद्धव्यं मया वत्स षट् त्रिशस्तु भवान्तकः । एवं पूर्वं महाबाहो तपसा स सुरासुरान् ॥१४॥
१. तु सा माशप्राप्ता क ।'
४. महामुने ।
७. ससर्गकान के ग ।
२. एतत् क ग ।
५. लंषिधू क ग ।
८. भवेद्रष्टोक ।
३. महादेवष्टदं क ।
६. जठराक्ष क ।
६. षङ्गितरांतक: क ग ।