________________
१५८
एकोनचत्वारिंशोऽध्यायः
अथ जल्पं तदा काले शङ्ख-वाक्यानिलेरितः ॥१०॥ दुन्दुभिः दानवेन्द्राणां सैन्यमध्यात् समुत्थितः । किं वाक्यैः शिशुभिस्तुल्यैः प्रमदा इव भाषते' ॥१०॥ वैर निर्यातना शङ्ख वरं रुक्मि भवान् भवेत् । भवे हतेऽथ गोविन्दे शक्र वा सगुहे हते ॥११०॥' अन्यथा विफलं जन्म उन्मत्त-शिशु-चेष्टितम् । आमंत्र्य दुन्दुभिः शङ्ख गजञ्च समरुह्य सः ॥१११॥ इन्द्रायाभिमुखोऽधावत ज्वलितं गृह्य चायुधम् । शूलं शूलि समाकारं सर्वायुध निवारणम् ॥११२॥ मुमोच स तु इन्द्राय इन्द्रोऽपि ज्वलिताशनिम् । शूलाय धारणं क्षेप्य सायुध' भयङ्करम् ॥११३॥ तं वज्र ज्वलितमिन्द्र शूल भिन्नं द्विधाकृतम् । भूमौ पपात विफलं भ्रमराणां चेष्टितं कृतम् ॥११४॥ वज्र हते तथा चैव वृहस्पति महामतिम् । गोपेन्द्र शरणं जग्मुर्गृहीत्वा सुरराट् तदा ॥११५॥ वलो हतस्त्वया च स्यात् सुबलस्ते चतुर्गुणः । स शङ्खो दुन्दुभिर्नाथ केनोपायेन शाम्यताम् ॥११६॥ पश्य वज्र न वज्राय दण्डं दण्डाय न प्रभो।
विह्वलं देव सैन्यंतु सायुधं गजवाहनम् ॥११७॥ तस्योपाय कथं संख्ये वधायाथ शमाव च । कथयस्व सुरश्रेष्ठ शरणागत वत्सलः ॥११॥ देवाः सवासवाः सर्वे रक्षणीया महाहवे । सुबलं बलसम्पन्नं नयोपाय समन्वितम् ॥११॥
१. भ्रापते क । ३. वलं क। ७. मुखोधर क ग। १०. सर्वासुर क ग ।
२. विरि क । ४. भवान्तरे क ग। ५. शक्र वास गृहे हते क। ६. स्वरथं क। .
८. शूलि समाकरं क । ६. अशनिः क ग । ११. विकलं श्रमल्ली वेस्विवहतं क ।
१२. तस्य क ।