________________
देवीपूराणम्
१५६
दुःसहं सुरसंधस्य वासवस्य विशेषतः । एवमुक्त्वा तथा मन्त्री विरराम पितामहः ॥१२०॥
उवाच सौष्ठवां वाणी माधवो रिपुनाशनः ।
विष्णु उवाच । या सा आद्या'परा शक्तिः शङ्करी मन्त्रसम्भवा ॥१२१॥ पदवर्ण विभागेन सा ते क्षमाय वासव । भविष्यति न सन्देहो महातत्वा महास्वरा ॥१२२॥ शकरं तोषयित्वा तु सा मया पदमालिनी । विद्याष्टक समायुक्ता क्षेमा क्षेमाय मानघा ॥१२३॥ दानवो वल संयुक्तो विद्या मन्त्र बलेन च । यदि याति वश कर्तुमन्यथा अजयो भवेत् ॥१२४॥ तदा विष्णुः सुरेन्द्रश्च बृहस्पति मरुद्गणैः । गत्वा शम्भु समाराध्य असुराणां वधैषिणः ॥१२५॥ जय त्वं जयतां श्रेष्ठ पंच मन्त्र तनू मय' । गुणहीन गुणत्वाच्च जगतः पालने स्थितः ॥१२६॥ उत्पत्ति स्थापने नाशे रजः सत्वं तमो मयः । अरुपं बहुरूपं रत्वं वचसामप्यगोचरः ॥१२७॥ सर्वगः सर्वरूपेषु सर्वभावव्यवस्थितः । त्राहि मां दानवानीक-महार्णव गतं हरिम् ॥१२८॥ ससुरं गणमादित्यं वसुं चास्मिन् विलोकयन् शान्ति विधाय जगतः क्षेमं कुरु त्रिशूलिनः ॥१२६॥ एवं गद्गदया वाचा विज्ञाप्य मधुसूदनः । तुतोष च तदा चासो सोमः सोमार्द्ध-शेखरः ॥१३०॥
वरं वरय गोविन्द यत् ते हृदि व्यवस्थितम् ।
यथा च माधवो हृष्टः सुवलं दुन्दुभि वध ॥१३१॥ 'एवन्तु याचिते रुद्रे प्रतिज्ञाते वरे हरे । चितिता परमा शक्ति विद्याष्टक समन्विता ॥१३२॥ तदा गता शिवा चाग्र मूत्ति भूता ब्रवीति सा । यत् कार्य देवदेवेश तदादिशय मे प्रभो ॥१३३॥
तदा देवेन तुष्टेन उक्ता सा सुवलं वध ।
' तावत् सञ्चिन्तितं देव्या पूर्व शाप हतो मया ॥१३४॥ विरुपेण च हन्तव्यो नायुधेनासुराघमः । एवं सा यौवनं रूप त्यक्त्वा वृद्धाभवत् तदा' १३५॥
१. या आद्या क २. महातला क। ५. तनुम्प्रय क। प. पंक्तिर्नास्ति क पुस्तके । ११. यसा क ।
३. यचालय क ग।
४. सौजयो भवेत् क ६. वसू चाग्निना थलोकयत् क ग । ७. गोपेन्द्र क ग । ६. सोह ख ग ।
१०. विद्या रूपेण क ग ।