________________
एकोनचत्वारिंशोऽध्यायः।
- शौनक उवाच । येषु येषु च तीर्थेषु पूजिता सुरसत्तमः । पूर्वमिन्द्रादि । देवी तीर्थांस्तान् प्रव वोहि नः ॥१॥
___ मनुरूवाच : ब्रह्मरणा पुष्करे देवो पूजिता सिद्ध कामिना' । कात्तिक्यां सर्व देवैश्व तत्रैव मुनिसत्तम ॥२॥ हिमवगिरौ महापुण्ये नन्दा रूद्रेण पूजिता । सर्वकामप्रसिद्धयर्थं खड्ग खेटक धारिणी ॥३॥ कामाख्या जामदग्न्येन किष्किन्ध्ये पर्वते नुता । देवी महेश्वरी शक्र पूज्यते काशिकाश्रमे ॥४॥ सर्वकाम सुसिद्धयर्थ रजेति वेद पर्वते । यजेद्भौमात्मजो देवीं कामाख्ये गिरिकन्दरे' ॥५॥ काश्यपो यजते देवी सरस्वत्यास्तटे शुभाम् । पूर्वसिन्धौ यजेदेवी सनको नाम भावितः ॥६॥ दक्षिणे वाम नामा च कार्तिकेय समन्विताम् । लङ्कायां यजते देवी राक्षसेन्द्रो विभीषणः ॥७॥ पश्चिमे वरूणो देवो यजते भावितोंऽभसा । उत्तरे नन्दिकालौ च कैलासे तो प्रपूजयेत् ॥८॥ अगस्त्य शिष्या मुनयो यजन्ति भावितां शिवान् । कण्वाश्रमे महापुण्ये धारण्ये सदा शिवाम् ॥६॥ कण्वो नान मुनि श्रेष्ठो यजते काश्यपात्मजः । महाकाले महादेवी कोटितीर्थे सुरोत्तमैः ॥१०॥
१. सिद्धि कामिनि क ग। २. नैमिषेच तथारण्ये विष्णुना पूजिता शिवा ।
मल्लाख्ये पर्वत देवी अम्वा सूर्येण पूजिता ।। क । ३. खंड क। ४. कालाख्य क ग।
५. कालिकाश्रमे क ग। ६. सर्व काम प्रसिद्धयर्थ कुजो वैवेदे पर्वते । पसेझौमार्थ जो देवी कौलाख्य गिरिकंदरे क । ७. सरस्वत्यास्तटे शुभे क। ८. समन्वितः क ।
8. कौरि क ।
..