________________
अष्टत्रिंशोऽध्यायः।
शक्र उवाच । केनोपायेन सा देवी वरदा भवते नृणाम् । सर्वेषां हितकामानां तथा'ब्रू हि पितामह ॥१॥
ब्रह्मोवाच । हिमवद् विन्ध्यानिलयैर्यथा व्याप्ता वसुन्धरा । शिवा मङ्गल नन्दाच्चिर्लोका व्याप्ता परापरा ॥२॥ तथा दक्षिण विन्ध्याद्रमलयाच्च यदन्तरम् । मङ्गला सा स्थिता देवी दुर्गा तत्र प्रपूजयेत् ॥३॥ उत्तरं विन्ध्यसागन्तु पश्चिमोदधि पूर्वगा । कुरुक्षेत्रान्तरालन्तु जयन्ती शिव-अङ्गगा ॥४॥ कुरूक्षेत्रोत्तरं भागं हिमवदक्षिणेन च । नन्दा देवी कलांशास्तु देव्यास्तत्र प्रपूजयेत् ॥५॥ कालिकाख्या तथा तारा उमा सङ्घनगेषु च । तथा किष्किन्धिकाद्या या भैरवी चेति विश्रुता ॥६॥ रूद्राणी च कुशलाम्ने भद्रकाली जालन्धरे । महालक्ष्मीस्तु कोलाख्ये कालरात्रीच सज्यगा ॥७॥ अम्बाख्या लोहिता देवी पूज्यते गन्धमादने । उज्जयिन्यान्तु उज्जेनी जम्बुमार्गे तथा स्थिता ॥८॥ महाकालीति विख्याता वैदेहे भद्रकालिका । एता इन्द्रावताराख्या महादेव्यः सुरारिहाः ॥६॥
पूजिताश्चिन्तिता वत्स सर्व काम फल प्रदा ॥१०॥
इति श्री देवीपुराणे देव्यवतारे स्थान-कथन-नामाष्टत्रिंशोऽध्यायः ॥
१. त्वंशे क ग ।
मञ्यगा क।
२. अगगा क ग ।
३. कालशरात्री क। ५. चार्तुदते तथा क ।
६. वैदिशे क ग। अस्यातु कृति रूपेण वाक्षे मृन्मय शैलजाः ।
धातु रत्न कृता शक्र पूजयेत् सुखभाग्भवंत ॥ पद्भासन स्थिता का• सिंह दंडासने पिवा।
गजाश्चखरमारूढा सर्वभावकलप्रदाः । क ग ।