________________
१५२
एकोनचत्वारिंशोऽध्यायः
पूजिता सर्व कामाणि प्रयच्छत्यविचारणात्' । भद्राख्ये तु वरे देवी तुष्टा ह्यासीत् पुरन्दर ॥११॥ मान्धाता नाम राजेन्द्रः तृतीये यः प्रशंसितः । दिलीपस्य तथा देवी तुष्टा कावेरि सङ्गमे ॥१२॥ गोकर्णे राजसेनस्य प्रजापालस्य दन्डके । धन्वन्तरः पुरा तुष्टो गन्डक्याः सङ्गमे मुने ॥१३॥
आत्रेयस्थ महाशोरणे नदे तुष्टा तु अम्बिका । महोदये महादेवी परशुरामेण तोषिता ॥१४॥ कोटि मुन्डेति विख्याता पीठक्षत्र शिवोपरि । महाराजेति या देवी मुन्डिपीठगता मुने ॥१५॥ सार्व भौम शिरैस्तस्याः पीठं रामेण कल्पितम् । खन्ड मुन्डा तथा देवी अपरा तेन पूजिता ॥१६॥ गति दिव्यांगतोयेन सह नक्षत्र चारिभिः । मलयाद्रौ तथा देवी अघोरा नाम पूजिता ॥१७॥ जामदायेन लङ्काद्रौ कालिकेति तथा पुरा । पूजिता विजया नाम शाकद्वीपे महोदया ॥१८॥
कुशद्वीपे तथा चण्डा सर्व्वदेव-प्रपूजिता ।
क्रौञ्चेऽति योगिनी नाम शाल्मलेऽति वराङ्गना ॥१६॥ मन्दरे धूतिमाख्याता' राम भद्र जयावहा । पुष्करे कोय॑ते देवी नाम्ना नारायणीति च ॥२०॥ जलमध्ये गता देव्यः प्लवा हेला' प्रकीर्तिताः । पर्वतोवंगता देव्या धारणा धरणा मता ॥२१॥ एताः पौराणिका देव्यो जामदग्न्येन पूजिताः। महाधर्म विनाशार्थं ब्रह्मणामिततेजसा ॥२२॥ महादेवी पुराराध्या वदऱ्याख्ये तु आश्रमे । तपस्तप्यति गोविन्द:१३ पूजितः पद्मजन्मना ॥२३॥ एवं सर्वगता देवी मन्त्र विद्यागमेषु च । संस्थिता मातृ तन्त्रे च ज्येष्ठे तन्त्र च भैरवे ॥२४॥ पूवं शुक्रण देवेशः पृच्छितो वृषवाहनः । मन्त्राणां किं बलं देव विद्यानाञ्च महेश्वर ॥२५॥
ईश्वर उवाच । मन्त्राणां परमं वीयं विद्यानां परमं वलम् । श्रूयतां कथयिष्यामि संक्षपाद् भृगुनन्दन ॥२६॥ ब्रह्मणा कथितं पूर्व तच्छृणुष्व समाहितः । प्रासीद् दैत्यो वलो नाम महाबल पराक्रमः ॥२७॥
१. विचारण्यत् क। २. तुष्टा आसीत्पुरंदर क ग । ३. मांधाता यमराजे इष्टतीये यः प्रशंतांक।
४. तुष्टा कारेरि हरिसंगमे ख । ५. पीठे क्षेति शिरोपरि क ग ।
६. मुण्ड क ग। . ७. शाल्मलेति वरांगना क । ८. वर्णी क। ६. वरांगना कुला क । १०. मार्जार भति क ग । ११. नाम नारायणेति क। १२. प्रवाहेन क । १३. गौचिंद: क ।