SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् लयं सन्मार्ग धर्म्मस्थं दृष्टौ त्रिनयना मता । पदैस्त्रिभि र्बलिर्बद्धो रागादि त्रिपदाथ वा ॥ ३१ ॥ उत्पत्ति-स्थिति-नाशेषु रजादि त्रिगुणा मता । सर्व्वज्ञा सर्व्व वैतृत्वाच्छान्तित्वाच्छान्तिरुच्यते ॥ ३२ ॥ अरूपा परभावत्वाद् बहुरूपा क्रियात्मिका । जाता शैलेन्द्र गेहे सा शैलराजसुता ततः ॥ ३३॥ साध्वी पतिव्रतत्वाच्च स्कन्दत्वादेन मातृका' । तारगाद्विपुशका देस्तारा लोकेषु गीयते ३४ ॥ बामं विरुद्धरूपन्तु विपरीतन्तु गीयते । वामेन सुखदा देवी वामा तेन मता बुधैः चिति चैतन्य भावत्वाच्चेतना वा चितिः स्मृता । ॥ ॥ ३५ ॥ महत् व्याप्य स्थिता सर्व्वं महा सा प्रकृतिर्मता ॥ ३६ ॥ स्मृति: संस्मरणादेवी नियता च नियामनात् । मथनं भर्द्दनं प्राहुः शुम्भादि भयमाहवे ॥३७॥ निशुम्भशुम्भ मथनी देवी देवेषु गीयते । रेवा तु नर्मदा देवी नदी वा रेवती मता ॥ ३८ ॥ प्रति खण्डेन रक्षा वा लोके देवी प्रकीर्तिता । ऋक्षी शृङ्गाटकाकारा कुन्डली वा समुद्भवे |३६| स्वर व्यञ्जन उत्पत्तौ वेदमाता ततः स्मृता । पूज्यते या सुरैर्देवैः महोश्चैव प्रमाणतः ॥ ४० ॥ बृहदस्य शरीरं यदप्रमेयं प्रमागतः । वृहद्विस्तमित्युक्तं ब्राह्मी देवी ततः स्मृता ॥ ४१ ॥ धातुमर्हति पूजायां महादेवी ततः स्मृता । सेव्यते या सुरैः सर्व्वस्तांश्चैव भजते यतः ॥४२॥ धातुर्भजेती सेवायां भगवत्येव सा स्मृता । तुष तुष्टौ स्मृतो धातुस्तस्य तुष्टा निपातने ॥४३॥ सुजत्येषा प्रजास्तुष्टित्वाष्ट्रि तेन प्रकीर्तिता । महानिति च योगेषु प्रधाना चैव कथ्यते ॥ ४४ ॥ त्रिगुणा व्यतिरिक्ता सा पुरुषश्चेति चोच्यते । हिरण्यगर्भोऽभूद् बुद्ध्या तेन बुद्धिर्मता सौ ॥४५॥ विश्वं बहुविधं ज्ञेयं सा च सर्वत्र विद्यते । तस्मात् सा वहुरूपत्वात् बहुरूपा शिवा मता ॥४६॥ एते च असते लोका न एका न च सा स्मृता । एका च नाशतो लोका एकानंशा च सा स्मृता ॥४७॥ शुक्रादयो देवा सनकाद्याः तपोधनाः । तेषां स्वामी तथा ' ' योगी ईश्वरी प्रभुपालना ॥४८॥ १. उत्पादन मातरा क ग । ४. वाजवी श्रृंगीठ क । ६. जापांक । ६. सनकांत सायोवला क । २. वाक । ५. ख पुस्तके नास्ति । ७. स पुरुषः ते क ग । १०. ततो क । १४५ ३. मर्दत्वाहुः शुभादि भय माहवां क । ८. तेन बुद्धिम्मंहत्यसौ क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy