________________
१४६
सप्तत्रिंशोऽध्यायः
आत्मेन्द्रिय-मनादीनां संयोगो योग उच्यते । तेषां वा योजनाद् योगी योगैश्वर्य्यावबोधना ॥४६॥
स्मृतिः' सिद्धिरिति ख्याता श्रिया संश्रयणांसवा। .
लक्ष्मीर्वा ललना वापि क्रमणात् कान्तिरुच्यते ॥५०॥ स्वराः स्मरणशीलत्वात् ज्ञ या सप्त स्वरात्मिका । अति प्रायण दाने वा तेन देवी सरस्वती ॥५१॥ गायनाइमनाद्वापि गायत्री त्रिदशाच्चिता। साधनात् सिद्धिरित्युक्ता साधिका वाथ ईश्वरी ॥५२॥
स्वामित्वाद् दानसिद्धित्वात् सिद्धिश्चर्या प्रकीत्तिता।
स्मरणाच्चिन्तनाद् वापि शोध्यते महापातकात् ॥५३॥ तेन शुद्धिः समाख्याता देवी रुद्र तनौ स्थिता । महागज घटाटोप संयोगे' नर-वाजिनाम् ॥५४॥
स्मरणाद्वारते वाणान् सेन सा कान्डवारिणी। विचित्र कार्य करणा अचिन्तित फलप्रदा ॥५५॥ . स्वप्नेन्द्र-जालवल्लोके माया तेन प्रकीर्तिता। आत्मवेदनशीलत्वादन्वीक्षण पराथवा ॥५६॥ अन्वीक्ष्य कुरुते यस्मादान्वीक्षा सा ततः स्मृता।
ऋग् यजुः साम भागेन साङ्गवेद गतापि वा ॥५७॥ त्रयीति कथ्यते लोके दृष्टा दृष्ट प्रसाधनो । पश्वादि पालनाद् देवी कृषि कर्मान्त कारणात् ॥५८॥ वर्तनाद वारणाद् वापि वार्ता सा एव गीयते । नया नय गता लोके विकल्पेन निरामया ॥५६॥
दन्डनाद्दमनाद् वापि दन्डनीतिरितिस्मृता। .
क्रिया कारण रूपत्वात् सरणाच्च सरिन्मता ॥६०॥ गाङ्गमागमनाद्गङ्गा लोके देवी विभाव्यते । यमस्य भगिनी माता यमुना तेन सा मता ॥६१॥
प्रभा प्रसादशीलत्वाज्ज्योत्सना चंद्रार्क मालिनी । रजनी कीत्तिता देवी प्राति प्राप्तिर्मता बुधैः ॥६२॥
१. भूतिः क ग। २. लालन लीला वाक्तमशोत् क। ४. कोपेच्ये क ।
३. सुरासुरण शीलत्वाद्दे याख्या सप्त कीत्तितः क ग । ५. संयुगे क ग।