________________
१४४
fafजित्य पद्म नामानं दैत्यराजं महाबलम् । विजया तेन सा देवी लोके चैवापराजिता ॥ १२॥ सिंहमार कन्यात्वे निहतो महिषो यथा । महिषध्नी ततो देवी कन्या वै सिंहवाहिनी ॥१३॥ काली दक्षापमानेन सर्व्वं शत्रु निवर्हणी । कलना काल संख्या वा काली देवेषु गीयते ॥ १४॥ कपालं ब्रह्मकं जातं करे धारयते सदा । कपाली तेन सा प्रोक्ता पालनाद्वा कपालिनी ॥१५॥ हत्त्वा रूरू महादैत्यं' ब्रह्म-विष्णु भयङ्करम् । तस्य प्रावृत्य वै चर्म्म मुन्डं वामकरे तथा ॥ १६ ॥ हत्वा निर्गत भूसा चामुण्डा ततः स्मृता । नन्दते सुरलोकेषु नन्दने वसते तथा ॥ १७ ॥ हिमाचले महापुण्ये नन्दा देवी ततः स्मृता । अल्पेनेवोपकारेण यस्माल्लोके सुखप्रदा ॥ १८ ॥ कौशेय धारणाद् वापि सुप्रसादाथ कौशिकी | कौर्मन्तु वशं कृत्वा गृहीतं तत् पुरं यथा ॥ १६ ॥ तेन सा गीयते देवी पुराणे कैटभेश्वरी । श्वेतं शुक्लां शिवं स्थानं स्थानं यस्मादिहागता ॥२०॥ महाभार समुत्पन्नः महाश्वेता ततः स्मृता । भाग्यवृद्धिः समाख्याता सर्व्वदिक् कामृतोपमा ॥२१॥ महार्थ साधना देवी महाभागा ततः स्मृता । सुवाहुस्त्रिदशा देवी नन्दिनी दुन्दुभिर्मता ॥२२॥ तेषाञ्च वादिनी नंदी ईशत्वात् त्रिदशेश्वरी । रुद्रो भवः समाख्यातो भवः संसारसागरः ॥२३॥ भवः कामस्तथा सृष्टि भवानी परिकीर्तिता । मातराण्यग्रजा ज्येष्ठा सर्व्वसम्बन्ध कारणात् ॥ २४ ॥ तमोनिश्च गामित्वात् तमोनिष्ठा विनाशिनी । ब्रह्मिष्ठा देव-मातृत्वाद् गायत्री चरणाग्रजा ॥२५॥ वेदेषु चरते यस्मात् तेन सा ब्रह्मचारिणी । अपर्णा सा निराहारा एकाशी" एकरंगका ॥ २६ ॥ पाटला पाटलाहाराट्र देवी लोकेषु गीयते । धात्री माता समाख्याता धारणे चोपगोयते ॥२७॥ त्रयाणाञ्चैव लोकानां नाम त्रैलोकधात्रिका । त्रिदशैरच्चिता देवी देवयागेषु पूजिता ॥ २८ ॥ भावे शुद्ध स्वरूपा तु सावित्रीं तेन सा स्मृता । ब्रह्म विष्ण्वीश देवानां नयञ्च परमं गता ॥२६॥ त्रयाणां शुभदायित्वात् त्रिशूली" तेन शङ्करी । दक्षिणञ्चोत्तरं लोकं तथा ब्रह्मायणं परम् ॥३०॥
सप्तत्रिंशोऽध्यायः
७. यत्नात् क ग ।
१०. त्रिषं शूलीक ।
१. सदादित्यं क ग ।
३. सुबाहु स्त्रिदशा देवानां दिनीं दुदुभिर्म्मता क ग ।
५. समवारयग्रज जयेष्ठा षष्टी सर्वधकाररणत् क ।
८. देकाशी क ।
२. स्थानं यस्माद्यदिहयागता क पुस्तके नास्ति ।
૨
४. प्रकीत्तिता क ग । ६. दिवेषु क ग । ६. वेद क ग ।