________________
षट्त्रिंशोऽध्यायः
करतल गति निर्विघ्ना' सिद्धिः स्याच्चिन्तिता तस्या ॥ २६ ॥
एवं स्तुत्वा क्षमायेत विक्लवा गद्गदा गिरा । समन्युद्गीत उद्वाष्पो वरान् कामान् नृणां कुरु ॥२७॥ पुनः प्रपातमष्टाङ्गः कर्त्तव्यं सिद्धिभाग भवेत् । सकामो विविधान् भोगान् निष्कामः परमं पदम् । २८ प्राप्नुयान्नात्र सन्देहो वाच्यमेतत् स्तवं परम् । तत्त्वार्थ' रूपिणि देवी यस्मात् स्तोत्र प्रकाशितम् । २६ तस्मात् प्रयत्नतः शुक्र पठितव्यस्तदर्थभिः । वेदार्थं चिन्तमानेन विष्णुना पठितः पुरा ॥ ३० ॥ ब्रह्मणा शिव सद्भावं सूर्येण मनुना तथा । दक्षः प्रजापति व्यास देवलासित गौतमः ॥ ३१ ॥ वशिष्ठ भृगु माण्डव्य पुलहादिभिः सत्तमैः । एतद्देव्याः परं तत्त्वं सर्व्वभावप्रकाशकम् ॥३२॥ पठनात् श्रवरणात् शुक्र सर्व्वकाम फलप्रदम् । विद्यार्थी लभते विद्यां सुखार्थी सुखवान् भवेत् ॥३३॥ बन्धनात् मुच्यते बद्धो रोगाद रोगी प्रमुच्यते । सर्व्वदान तपस्तीर्थं यज्ञ- पुण्यमवाप्नुते ॥३४॥
इति श्री देवीपुराणे देवीस्तवोनाम षट्त्रिंशोऽध्यायः ॥
१४२
१. विद्या क ग । ४. सुखमुत्तमां क ग ।
२. तत्वास्व क ग ।
३. चितिः क ।