________________
देवीपुराणम् ।
१४१
जय सकल शत्र मर्दनि मृगपति गमन प्रियेन्दु दीप्ताये। त्वं देवो समरकालेऽत्यद्भुत चेष्टौ त्वं नमस्ते ॥१७॥ जय विप्रदर्शन मात्रात् सहर्ष वेगेण त्रुठितवलयोधम् । अभयमिव घोषयन्तं भक्तं शक्रञ्चाभयकारि नमस्ते ॥१८॥ जय सव्यादसव्ये वाणान् मुञ्चन्त्युज्ज्वलन वलयिनि । त्रुटयन्ति संधिमार्गाः कात्यायनि कञ्चुके नमस्ते ॥१६॥ जल शत्रु चाभिमुखं दंष्ट्रादेवमुक्त शस्त्रहुङ्कारम् । रिपूभयदामभयदभक्त म तमूर्धातरे नमस्ते ॥२०॥ जय रिपु निग्रह कारिणि नियमयमे दुःख शोक वैचित्र्ये । उद्वेग भय रूजाय॑श्चोदयसि नेच्छन्नपि नमस्ते ॥२१॥ 'जय ये भक्ताः शूलिनि प्रताप मानाभिमान सन्तुष्टाः । तेषां दृष्ट्या पुरतो लक्ष्मीःसञ्चरति च नमस्ते ॥२२॥ इति दुःख शोकिनं त्वं मुखं निर्लज्जं निकृति पिशुनम् । जरा रूज पीडित गात्रं नास्तिक्यं त्राहि मां देवि ॥२३॥ त्वं ज्वर रूजवोचौ प्रावर्ताकल्प यौवनौल्लोलैः । विषमे दुःख समुद्र मग्नं त्वं त्राहि मां देवी ॥२४॥ यन् मे किञ्चित् दुःखं तत् सर्वं ते निवेदितार्जेन । यो यस्य प्रपन्नो निवेद्य दुःखं सुखो भवति ॥२५॥ अर्थे शूलिनि दुर्गे गौरी चण्डी प्रसीद मां देवी । अभिवाच्छितञ्च सिद्ध्यतु मम देवी तव प्रसादेन ॥२६॥ अर्चयित्वा तु दुर्गा यः पठति भक्तिमान् नरः ।
१. सकल तुम कुनि क । ३. रिपु क । ५. तवनमोघं क ।
२. द्वंद्व का ४. मात्रा हर्ष क। ६. क पुस्तके नास्ति ।