________________
देवीपुराणम्
१३३ दोप माला घृतेनैव सर्वकामान् प्रयच्छति । सर्वयज्ञ महीदान सर्व तीर्थ फलं लभेत् ॥१०६॥ एतद् व्रत वरं शुक्र मया ब्रह्मणा विष्णुना । जगतो हितमिच्छभिश्चीर्ण दुर्गा व्रतं महत् ॥१०७॥ भानुना ग्रह विध्वंसमनेन कृतवान् पुरा। तथा देवासुरा यक्ष-नाग-किन्नर-मानवैः ॥१०८॥
अप्सरोभिस्तथा स्त्रीभिः सौभाग्यस्य विवृद्धये ।
कृतवान् ग्रह शार्दूल त्वमपि कुर्य्या यथाविधि ॥१०॥ श्रवणादपि प्राप्नोति सर्वकाम सुखानि च । इष्टानि लभते पुसो वन्ध्या पुत्रं प्रसूयते ॥११०॥
इति श्री देवीपुराणे देव्यवतारे दुर्गावतं नाम त्रयस्त्रिंशोऽध्यायः ।
१. पंक्त: न सन्ति क पुस्तके ।
२. इत्याद्ये देव्यवतारे दुर्गावतम् - क ग ।