SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १३२ त्रिंशोऽध्यायः लभते वासना युक्तो यतो देवीमयं जगत् । चैत्राष्टमीषु स्नापयेत् मातृस्थान मृदम्बुमिः ॥१०॥ देवी तीर्थ जलैः स्नाप्य लेप्या मदविलेपनः । धूपं तुरूष्क औशीरं युक्तियुक्तेन पूजयेत् ॥६१॥ नैवेद्य'शालिजं भक्त शर्करा कन्यकास्वापि । आत्मनस्तच्च वाच्यन्तु शक्तितो दक्षिणां ददेत् ॥२॥ . अजिता सर्वकामानां पूरणाय सुखाय मे । विप्राःकन्याः समं वाच्या होमदान फलं लभेत् ॥३॥ सहकार फलं स्नानं वैशाखेऽष्टमीषु च । प्रात्मनो देवतां स्नाप्य मांसी बालक वारिभिः ॥४॥ लेपनं मधु कपूरं धूपं पञ्च सुगन्धिकम् । देव्या पूजाञ्च कुर्वीत केतको मदनेन च ॥१५॥ क्षीरं शर्कर नैवेद्य कन्या विप्रेषु भोजनम् । आत्मनः पारणं तद्वत् दक्षिणां शक्तितो वदेत् ॥६६॥ अपराजितां भवानी स्वस्ति नामेन वाचयेत् । प्रीयतां सर्वकालं मे ईप्सितन्तु प्रयच्छतु ॥७॥ सर्वतीर्थाभिषेकन्तु अनेनाप्नोति भार्गव । सूर्यलोकं व्रजेदन्ते तत् तुल्यो भवते ग्रह ॥८॥ अष्टम्याञ्चैव ज्येष्ठस्य तिलः स्नायाद्विचक्षणः । सर्व सङ्ग परित्यागी देवी जातिफलाम्ब ना ॥६॥ स्नापयेत् लेपयेत् तेन चन्दनेन सुगन्धिना । ततो विजयेन्दुः पुष्पैः पूजयेद् ग्रहसत्तमः ॥१०॥ नैवेद्य सक्तवो देव्याः शर्कराः कन्यकास्वपि । दक्षिणा शक्तितो देया चच्चिकां प्रति वाचयेत् ॥१०१॥.. लभते शुक्ल यज्ञस्य सौत्रामणिसमं फलम् । अष्टमी चैव प्राषाढ़े निशातोयेन स्नापयेत् ॥१०२॥ ततो देवी जलकुष्ठं वारिणा उदकेन च । स्नात्वा लेपयेत् कर्पूरं चन्दनं रोचनाम्बुभिः ॥१०॥ धूपं चन्दन कपूर वालकासित शल्यकैः। .. भक्त्या शर्कर पूर्णानि शुभानि यानि कानि च ॥१०४॥ दापयेत् कन्यका विप्रान् भोजनं ह्यात्मनस्तथा । शक्तितो दक्षिणा देया महिषनीति कीर्तयेत ॥१०॥ १. निवेद्य क ग । २. नात्मानत्मन क। ३. क पुस्तके विशति पंक्ती न सन्ति परं ग पुस्तके सन्ति।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy