________________
देवीपुराणम्
१३१
अनेन विधिना वत्स विद्यादान फलं लभेत् । वेद वेदाङ्ग तत्त्वज्ञः तदन्ते शिवतां व्रजेत् ॥७३॥
मार्गशीर्षे नभे मासि ह्यष्टम्यां गिरि पृष्ठतः ।
स्थाप्य देवीं ततः स्नायात् तीर्थ तोयेन भार्गव ॥७४॥ लेपयेत् बालकं कुष्ठं पूजा जातो गजाह्वयैः । धूपं कृष्णागुरू दद्याद् घृत दीपान् निवेदयेत् ॥७॥ दधि भक्तन्तु नैवेद्य कन्यास्तेनैव भोजयेत् । दक्षिणं शक्तितो दद्यादात्मनस्तच्च पारणम् ॥७६॥ इमां मे प्रीयतां वाच्यं वाजपेय फलं लभेत् । इहैव धनवान् भोगी देहान्ते ब्रह्मणः पदम् ॥७७॥ पौषाष्टमीषु दूर्वाग्रैः स्नात्वा शुक्ल परिच्छदः । जित क्रोधो अद्वन्द्वश्च देवी कर्पूर वारिणा ॥८॥ स्नापयेत् लेपयेच्छन मासीवालक चन्दनः । भूपञ्च निर्दहेत् प्राज्ञः पूजा नील कुरूण्टकैः ॥६॥ कृषरागुड नैवेद्य कन्या भोजयेत् तेन वै । प्रात्मनः पावनं तच्च शक्त्या दक्षेत वाचयेत् ॥८०॥ . नारायणी सदा प्रीता मम देवी प्रसीदतु । कृतेन ग्रहराजेन्द्र भूरि दान फलं लभेत् ॥८१॥
शुभ गोधन सम्पन्नः परत्र शिवामाप्नुयात् ।
माघे मासि चाजगावं मृद्भिः स्नात्वा तु भार्गव ॥८२॥ देवीं तोयेन संस्नाप्य तथा क्षीर घृतेन च । स्नापयेत् पुनस्तोयेन लेपयेत कुकुमेन च ॥३॥ धूपं देवदलं दद्यात् कुन्दपुष्पैश्च पूजयेत् । घृतपूर्णञ्च नैवेद्य कन्यां विप्रांश्च तेन वै ॥८४॥ भोजयेदात्मनस्तच्च दक्षिणां प्रीयतां जया । सर्व याग फलं शक्र'लभते नात्र संशयः ॥८५॥ फाल्गुने सर्षपैः स्नात्वा देवीमाम्र-फलांबुना। तथा इक्षुरसेनैव भूयस्तेनोदकेन च ॥८६॥ रोचने लेपयेत् पूजा शत पत्रिकया' ग्रह । दीपो घृतेन धूपं च चन्दनं घृत शर्करा ॥७॥ नैवेद्य शोक वय॑ञ्च भोजनं कन्यकासु च । प्रात्मनस्तच्च कुवीत दक्षिणा स्वस्ति वाचयेत् ।८८॥ विजया सुखदा नित्यमस्तु मे चिन्तितानि च । अनेन विधिना शक्र राजसूय फलं लभेत् ॥६॥
१. अवन क ग। ३. वेदांते क। ५. पूजयेद क। ८. तुमा क। ११. शिवा क ग ।
२. लभेत् क। ४. अष्टभ्यं गिडि मद्दभिः क ग । ६. कुकुष्ठं क।
७. निबीधयेत् क । ६. धनत् क।
१०. भूमि क ग । १२. विप्र क।
१३. फला क।