________________
१३०
त्रयस्त्रिशोऽध्यायः
तदा आमलकः स्नात्वा'शुचिः सङ्गविज्जितः ।
पूजयेत् यूथिका पुष्प देवीं क्षीरेण स्नापिताम् ॥५६॥ चन्दनोदक मिश्रेण कुङ्कुमेन विलेपयेत् । ततः पूपक नैवेद्य कन्दवन्यांश्च दापयेत् ॥६०॥ अगुरु धूपेन दद्यात् तिल तैलेन दीपिकान् । तेन ता भोजयेत् कन्या द्विजान् सद्वृत्तिवतिनः ॥६१॥
पाषन्डान् नावलोकेत नीचान् शास्त्र-बहिष्कृतान् । दक्षिणा शक्तितो देया स्वस्ति वाच्येत मङ्गलम् ॥६२॥ पावनञ्चात्मनस्तच्च सौत्रामणि-फलं लभेत ।
गच्छते विष्णु लोकञ्च तदा विप्रोऽभिजायते ॥६३॥ धनाढ्ये महति गोत्रे वेद वेदान्त पारगे । पुत्रवान् धनवान् भोगी सुखं प्राप्य शिवी भवेत् ॥६४॥
आश्विने अष्टमी शुक्ले नदी मृद्भिश्च स्नापयेत् ।
ततो देवी स्नापयेद् वत्स दधिना ह्य दकेन च ॥६५॥ पालभ्य रोचना मन्त्र—पो देयस्तु बालकम् । संनखं सित-तामिश्रं पद्म पुष्पैश्च अर्चयेत ॥६६॥ नैवेद्य रोहितं मांसमाज वा शल्यकं तथा । गोधूम विकृति भक्ष्यान् घृत पक्वानि दापयेत् ॥६७॥
तेन कन्यास्तु भोजीयाद् द्विजांश्चापि क्षमापयेत् ।
शक्तितो दक्षिणा देया आत्मनस्तच्च भोजनम् ॥६॥ गो सहस्र प्रदानस्य फलं प्राप्नोति मानवः । प्रारोगी सुखवान धन्यो जायते इह मानवः ॥६६॥
दुर्गा नामन्तु कीर्तयेत् तस्या लोके महीयते ।
कात्तिके दर्भमूलाभिम द्भिः स्नायात् तु भार्गव ॥७॥ देवी गन्धोदकः स्नाप्य प्रौशीरैःपूज्य लेपयेत । धूपं पञ्चरसं देयं तिल तैलेन दीपकान्' ॥७१॥ नैवेद्य पायसं सपिः कन्या विप्रेषु चात्मनः । भोजनं स्वस्ति वाच्येत दक्षिरणां प्रीयतां शिवा ॥७२॥
१. स्नीला क। ३. मृदासि क। ६. रौहिषं क ग। ६. अनस्तवृतभोजनां क ग।
४. चन्द्र भुपंदेयं तु क । ७. शल्पंकजंप्रिवा क। १०. कीतिया क ग।
२. कर्णाश्च क । ५. मित्रे यज क । ८. रिकृति भक्ता क। ११. दीपयेत क।