SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् १२६ एवं स्तुतः पुरा शम्भुः स्तोत्रेणानेन वासव । तुतोष देव देवेशः शशाङ्काङ्कित शेखरः ॥४५॥ ईश्वर उवाच ई. वरं ब्रू हि ग्रहाध्यक्ष यत् ते मनसि वर्तते । सुरासुराधिपत्यं ते ददामि भृगुनन्दनम् ॥४६॥ शक्र उवाच । यदि तुष्टोऽसि मे देव कृपा वा वर्तते तव । तदाह्याराधनं देव्याः श्रोतुमिच्छामि तत्त्वतः ॥४७॥ ईश्वर उवाच । श्रृणु वत्स प्रवक्ष्यामि देव्याराधनमुत्तमम् । कर्मयजन्तु यज्ञानां सुकरं सुमहत्फलम् ॥४८॥ सांवत्सरी यथा पूजा सुकालेन समारभेत् । एवं नक्षत्रवेधादीन् कुर्यात् कन्द फलाशिनः ॥४॥ यव सपिःप्रघासी च गोमूत्रं दधि गोमयम् । पवित्रं विहितं तन्त्रे असक्तानाञ्च भार्गव ॥५०॥ देवी व्रतं प्रवक्ष्यामि सर्वकाम प्रसाधकम् । श्रावरणे शुक्ल पक्षे तु अष्टम्यां वायु-भोजनः ॥५१ स्नात्वा सापटी भूत्वा जितक्रोधः क्षमान्वितः । देवीं संस्नाप्य तोयेन पुनः क्षीरेण स्नापयेत् ॥५२॥ ततो गुग्गुल धूपञ्च सतुरुक्षं प्रदापयेत् । ततो गन्धोदकस्नानं पुनस्तां येन स्नापयेत् ॥५३॥ श्री खण्डेन समालभ्य बिल्वपत्रैश्च पूजयेत । पायसं दापयेद् देव्या निवेद्य तेन भोजयेत् ॥५४॥ कन्या द्विजांश्च शक्त्या तु तेषां दद्याच्च दक्षिणाम् । कात्यायनीति उच्चार्य प्रीयतां मम सर्वदा ॥५५॥ आत्मतः पावनं तच्च कृत्वा' प्राप्नोति भार्गव । प्राश्वमेध फलश्चाग्र्यं देव्या लोकञ्च, गच्छति ॥५६॥ तदागत इमां भूमि पृथिव्यां जायते नृपः । तेन स लभते योगं शिवा प्राप्ति करं परम् ॥५७॥ मासे प्रौष्ठपदे शुक्र गोश्रृङ्गाग्र गृहीतया । मृदया ह्यात्मजो ह्यगमुपलिप्य तु स्नापयेत् ॥५८ १. हृदि व्यवस्थितम् क । ४. धेन्वाहि क ग । ७. पठो क। १०. पारणं क । २. श्रोतुतत्वतः क । ५. प्रसत्तीर क । ८. तथा क। ११. कुलाह क। ३. अाफलेन क। ६. गोत्सरं क। ६. पत्रेण क ग। १२. मथ क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy