________________
१२८
त्रयस्त्रिशोऽध्यायः
ये मानवा' विगतराग परापरज्ञा योगेश्वरं सुरगुरु सततं स्मरन्ति 1 ध्यानेन ते प्रहत किल्विष मोहजाला मातुः पयोधर रसं न पुनः पिवन्ति ॥ ३६ ॥ तद् गात्रं प्रणिपात रेणुधवलं ' सर्व्वस्य यत् सर्व्वदा ।
ते नेत्रे तपसाज्जिते सुरुचिरे ताभ्यां हरो दृश्यते ।
सा वृद्धि विमलेन्दु शङ्ख धवला या शङ्करध्यायिनी ।
सा जिह्वा मृदुभाषिणी हितकरी या स्तौति नित्यं शिवम् ॥४०॥ तच्चित्त चपलं चिनोति कुशलं यन्निश्चलं शङ्करम् ।
ते श्रोत्रे परमे शिवामृतरसं याभ्यां हरः श्रूयते ।। हस्ताः शिव धर्म्म कर्म्म निरताः पूजा प्रमाणोत्सुका । तौ पादौ समयौ प्रदक्षिणरतौ नित्यं विभोर्भावितौ ॥ ४१ ॥ पापं पाप रतं शुद्ध मनसं निर्लज्ज भग्नव्रतम् ।
क्रूरं तस्करमीर्षकं शठधियं तृष्णाधिकं निर्द्दयम् । काम-क्रोधवशं कृतघ्नचपलं तृष्णातुरं जिह्मलम् ।
मूर्ख हिंसन सूचकं पशुपते दोषाकरं त्राहि माम् ॥ ४२ ॥ दीनं दुःखितकं कुचैलमलिनं जिह्म शठं दुर्भगम् ।
क्षुद्र पापमति स्वधर्म्म चलितं बह्वाशिनं निद्धं नम् । अन्धं व्याधित निष्ठुरं व्यसनिनं सद्भिः सदा निन्दितम् ।
मूर्ख धर्म विर्वाज्जतं पशुपते दोषाकरं त्राहि माम् ॥ ४३ ॥ इमं स्तवं शक्र विनिम्मितं पठन् दिने दिने क्रतुफलमाप्नुयान्नरः । लभ त्यसौ यद्भिहितं पुरातने तल्लक्षये गच्छति शाश्वतं पदम् ॥४४॥
१. ते विद्या क ।
४. कूरं तर मी क । ७. निघुरं क ।
२. सर्वस्य यत्सर्वदा क ।
५. धर्म सूचक हिंसकं क ।
३. पंक्ति नास्ति क पुस्तके |
६. अज्ञ क ।