________________
देवीपुराणम् प्रव्रज्या न कृता विधान विहिता उक्ता तु या शम्भुना।
शैवज्ञान महार्णवस्य विधिवन्नवञ्च पारं गतम् ॥ पुष्पश्च सुकरिणकार तिलकैः नाच्चितः शूलधृक ।
कालोऽयं पर पिण्ड तर्पण परैः काकैरिव प्रेषितः ॥३४॥ न ध्यातं पदमीश्वरस्य विधिवत् संसार विच्छित्तये । ___नवाभि श्रुतिभि स्तुतोऽहरहः शम्भुः विभुभूतले। नवाप्युत्कट गन्धधूप कुसुमैः पूजा. कृता शङ्करे ।
धात्रा नूनमकारणं वयमिह सृष्टा जगत् पूरणे ॥३५॥ संसर्गात् कौतुकाद्वा क्षणमपि यः जप्तं पादेषु पद्मषु शम्भो ।
। याति ब्रह्मन्द्र विष्णु द्रविरण पति पुरांस्त्रीनति क्रम्य लोकान् ॥ शान्त्या भावेन यस्तं प्रणमति सततं सर्व विन्यस्त सर्गी ।
संछिन्नः क्लेश पार्शः प्रविशति विरजो रुद्र तेजो निधानम् ॥३६॥ यत् किञ्चासन जप्य होम निरता रागादिभिः वज्जिताः ।
शम्भोः पाद निपात घृष्ट शिरसः प्रत्यङ्मुखाः पत्निषु ॥ तेषामेव निगूढ नूपुर वरा चञ्चच्चलन मेखला ।
सम्भ्रान्ताग्रज पङ्कजोद्यतकरा पर्येति लक्ष्मीः स्थिरम् ॥३७॥ यैर्नाद्याप्यन्यजन्मन्यसितकुवलयः मिश्रिताभिः सिताभिः ।
मालाभिः मालतीनां त्रिभिरमरगुरुणाच्चितो नोलकण्ठः ॥ ते विद्यावित्तहीनाः प्रचलित मनसः क्षुत्तृषाक्षामकण्ठा ।
लोकेऽस्मिन् दोषदुष्टाः परिभव विभवास्ते च नित्यं भवन्ति ॥३८॥
१. पंक्तिरियं नास्ति क पुस्तके । ३. पत्सु क । ५. यशेठा क।
२. रायंति लोका क। ४. भुतायत क। ६.पंक्तिद्वयम् नास्ति क पुस्तके ।