________________
१२६
त्रयस्त्रिशोऽध्यायः
येषां नैवमिहास्ति मूढ़मनसां शच्चिनं क्वचित् ।
तेषां नष्ट पिशाच कागतधियां पुंसां विभूतिः कुतः ॥२८॥ द्वष्टारस्तु' शिवस्य ये कुपुरुषा गच्छन्ति तेऽधोगतिम् ।
तामिस्र क्रकचासि पत्र नरके कुम्भी महा रौरवे ॥ योनी मार्ग सहस्र खिन्नगमनाः प्राप्येह मानुष्यकम्। ।
रोगार्तो जड़ वासनान्धवधिरा जायन्ति योनौ खलाः ॥२६॥ जन्म-व्याधि -जरा वियोग मरण क्लेशादिभिः सन्तताम् ।
भूति चञ्चल सागरोमिचपलं स्वप्नोपमं जीवितम् ॥ माता-पितृ-कलत्र-पुत्र सुहृदो ये केऽपि बन्धात्मका।
ज्ञात्वैवं नरलोकमध्रुवमिमं शवं सदा संश्रयेत् ॥३०॥ यदत्तं न धनं यथाविभवतः पात्रेषु दीनेषु वा ।
विद्या नागमिता यशो न विततं शीलं न संरक्षितम् ॥ सत्यं नाधिगतं तपो न चरितं कीतिर्न विक्रामिता' ।
तेषां क्षेम शिवं न विद्यति नृणां मुक्त्वा हराराधनम् ॥३१॥ येषां न शम्भुचरणाग्रत भक्तिवादः ।
क्षुण्णां ललाट शतजर्जरितं कपालम् । तेषां कुतो बहुल चन्दन चच्चितानि ॥
मुक्ता फलाच्चित वधूस्तन-मण्डलानि ॥३२॥ ये त्वां विभो सुपरिकल्पन कल्पितेषु ।
- सम्यक् चरन्ति विविधेषु शिवाच॑नेषु ॥ ते चारू तुङ्ग घनकुङ्कुमपिञ्जरीषु ।
विद्याधरिषु निवसन्ति कुचान्तरेषु ॥३३॥
३. रोगात्तोक ।
१. ढेष्टारस्ता क। ४. दीनेषु क।
२. कुम्भा क। ५. निष्कासिता क।