________________
देवीपुराणम्
- ये सर्व्वे शरणागताः सुपुरुषास्त्यक्तान्यकार्य्या दशा । काल्याच्चन जप्य होम निरताद्रोगादिभि वर्जिताः ॥
ते भोगान् विविधानुभूय सकलान् कालेन कर्म्म क्षयाद् ।
वित्तैश्वर्य्यं समन्विताः क्षितितले जायन्ति ते भूमिपाः ॥ २३ ॥
ये
मूढा न श्रयन्ति वरदं संसार- दुःखच्छिदम् ।
देवं सर्व्वसुरासुर प्रणमितं शम्भुं परं कारणम्'
ते लोके परपिंडतर्पणपरा दीनाः सदा दुःखिता ।
जायन्ते भुवि मानवाः कुवसना धम्र्म्मार्थ कामोज्झिताः ॥ २४ ॥
ये लोकाधिपत सुरासुर गुरू ब्रह्म ेन्द्र सम्पूजितम् । वेदाद्यन्त षङ्ग योग विहितं सांख्यादिभिः कल्पितम् ॥
सर्व्वज्ञं प्रभुमीश्वरं त्रिनयनं सर्व्वात्मना भाविताः ।
ते भूयो न कला कलङ्क गहनं पश्यन्ति योनिमुखम् ॥२५॥
ये त्वन्ये सुकृतैषिणः प्रतिदिनं प्रोत्थाय भावान्विताः ।
कर्पू गुरु चन्दनैः सुरुचितैः स्रग्भिस्तथा भूषणैः ॥ क्षीरादिस्नपर्ने विधान विहितैः कुर्वन्ति शर्व्वाचनम् ।
भोगान् सर्व्वं गतानुभूय सुधियो गच्छन्ति दिव्यं पदम् ॥२६॥ ये केचित् कुपथाश्रिता जडधियो मन्दाममज्ञाः शठाः ।
देवं शान्तमजं प्रधानपुरुषं निन्दन्ति मोहाच्छिवम् । मृत्योद्गोचरमागताः यम भटैर्नानाविधैः शासनैः ।
१. कारणान्ते क ।
शाम्यन्ते नरकेषु ते प्रतिवलैश्चाक्रन्दमाणा भृशम् ॥२७॥ दानं भूतदया गुरूपदर्शनं क्षान्तिर्न चैवांजिता । सत्यं शौचमहलता शमदम त्यागोऽनुकम्पा तथा ॥
२. कुर्वीति ।
१२५