SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १२४ त्रयस्त्रशोऽध्यायः बीणा-वेणु - मृदङ्ग - वाद्य पणवैः संयोग भावान्वितैः । नारीभिः मद-विह्वलाभिरनिशं ये गीयमाना नृपाः ॥ शङ्ख ेन्दु' स्फटिकावदातधवले हर्योत्तमे संस्थिता । ते मोदन्ति दिवौकसा इव चिरं येषां प्रसन्न शिवः ॥ १८ ॥ यत् कान्ता वदनारविन्द दशन ज्योत्सनाभिरामोज्वलम् ।' श्वासामोदचल तुरङ्ग चपलं प्रोखेलना चञ्चलम् ॥ विन्यस्तं मणिभाजनेषु विधिवद् बन्धूक रागं मधु । नीलाम्भोरुहवासितं सुर गुरौ शुश्रूषया पीयते ॥ १६ ॥ यत् काची कल नाद पीन जघनव्यासक्त चीनांशुकाः । कर्णान्तायत लोचनाः सुवदना लावण्य लव्धारपदाः ॥ यदासीत्वमुपागताः क्षितिभुजामाशा विधेयाः स्त्रियः । तत् सर्व्वं भव-भक्ति पूत मनसां राज्ञां जगत् तत्फलम् ॥२०॥ सुप्ता रजनीषु मन्दिरवरे पर्य्यङ्कबिम्बे शुभे । ये नाभि मंदविलाभिरनिशं सोत्कण्ठमालिङ्गिताः ॥ निन्द्रानाशमिहोपयान्ति मधुरैः सङ्गीत तूर्य्यस्वनैः । तत् सर्व्वं समुपाजितस्य विधिवच्छम्भोः प्रणीतं फलम् ॥ २१॥ नाना यन्त्र सहस्रापि रचितं भीमावरुद्धाकुलम् । तं त्वा प्रविशन्ति चारू विमलं दैत्याङ्गनान्तःपुरम् ॥ सिद्ध द्रव्य रसायनं युवतयः कामाश्च कामानुगाः । तत् सर्व्वं सुलभं भवेत् सुधियां प्रीतेन कामारिणा ॥२२॥ १. हम्पेत्ति मे क । ३. पंक्तिरियं नास्ति क पुस्तके । ४. पंक्ति द्वयं नास्ति क पुस्तके । ६. तद्भित्वा क । २. शंविदुक । ५. साभिनाल क ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy