________________
त्रयस्त्रिंशोऽध्यायः' ।
अगस्त्य उवाच । श्रुत्वैवं देबराजेन कर्मयोगं पितामहात् । प्रपच्छ च स्तवं भूयः शम्भुगीतं यथा पुरा ॥१॥
शक्र उवाच । स्तवं देव पुरा देव्याः शम्भुना भार्गवस्य यत् । कथितं सिद्धिकामस्य तन्मे ब्रूहि पितामह ॥२॥
ब्रह्मोवाच । शुक्र ण च पुरा शक्र तपस्तप्तं सुदुश्चरम् । दिव्यं वर्ष सहस्रन्तु कैलासे शिखरोत्तमे ॥३॥ तथापि नोऽभवत् तस्य वरदस्त्रिपुरान्तकः । पुष्पदन्तगणः स्तोत्रमुदीरयत् मधुरस्वरः ॥४॥
___तं बुध्वा तद्गतं चित्तं शुक्रो वेदविदांवरः । स्तवेनानेन देवेशं तोषयामास भार्गवः । विचित्र पद बन्धेन ललितं मधुरेण च ॥५॥
शुक्र उवाच । शक्र वेद विदं कृताञ्जलि पुटं भक्त्या भवे भावितम् ।
संसारादू भयभीत खिन्न मनसां विज्ञापयेत् शंकरम् ॥ देहं पश्यत नित्यरोग बहुलमायास-दुःखावृतम् ।
. भुक्षिभि' तृषितं विभीषण करं निर्लज्ज-कामातुरम् ॥६॥ पृष्ट्वा वञ्चित मोक्षमार्ग रहितं क्रोधानलोद्दीपितम् ।
शुक्रोवाच महेश्वरस्य पुरतः स्तोत्रं तवाराधनम् ॥
१. ग पुस्तके अध्यायोऽयं नास्ति । ३. उत्तपापि क ।
४. शम्भुः क। ३. देहस्थानस्य क। ७. दू:वृतं क ।
२. सुदुस्तरां क। ५. खिर क। ८. भक्षोमि क।