________________
१२०
द्वात्रिंशोऽध्यायः
वस्त्र हेमाम्बु सम्पातैः कलसर्देवीन्तु स्नापयेत् । ततस्तच्छास्त्र वेत्तारैः प्रतिष्ठान्तु प्रकारयेत् ॥४१॥ देवी शास्त्रार्थ-तत्त्वज्ञेर्मातृ मण्डल वेदिकैः । भूत तन्त्र ग्रह वाल गारुडेषु कृत श्रमः ॥४२॥
प्रतिष्ठान्तु शिवान्तस्तु यथा शक्त्या तु दक्षयेत् । पूजयेद् ब्राह्मणाञ्छन कन्यां बालास्तथैव च ॥४३॥ दोनादि विकलान् सर्वान् यथा शक्त्या क्षमापयेत् । तदन्ते स्वस्ति वाच्यन्तु मङ्गला प्रीयतां मम ॥४४॥ सुखं तिष्ठन्तु राजानो गौ ब्राह्मणप्रजास्तथा। क्षत्र विट शूद्र वालेभ्यः सर्वशान्ति कराभवा ॥४५॥ सर्वान् कामान् प्रयच्छन्तु ये जनाः फल कामिनः । तथा स्तवेन चान्येन शिवगीतेन तोषयेत् ॥४६॥ ।
इति श्री देवीपुराणे देव्यवतारे प्रतिष्ठाकर्मयोगोनाम द्वात्रिंशोऽध्यायः ॥
१. वस्त्र हेमांतु संवीतं कलवर्ग वातु स्नायेत् क । ३. प्रतिष्ठाप्य क। ४. शोत क । ६. वानेन शिवगीतेन तोषितः क ।
२. प्रतिष्ठा तं न कारयेत् क । ५. ये जन्म यानि कामिनः क ।