________________
देवीपुराणम्
११६
त्रिरेख कन्धरां शान्ति वैयक विभूषिताम् । कठिन स्तन भारेण संशक्तो तौ निरन्ध्रणौ ॥२६॥ महा समुन्नतौ पीनौ वक्षौ पोनौन्नतौ शुभौ' । तनोरतनुः मध्येन मध्ये च त्रिवली मता ॥२७॥
रोमराजी नितम्बोद्ध ह्यनङ्गाङ्क र सूचिवत् ।।
विस्तीर्ण जघना कार्या रम्मा-गर्भोरु कोमलौ ॥२८॥ गढ़ गुल्फो तु पद्माभौ पद्याङ्कित सुनूपुरौ। काञ्चित् किङ्किणी भावं तं ब्रह्म सूत्रेण राजते ॥२६॥ केयूर नाग बन्धेन ह्यङ्गदैः रक्तकाञ्चनैः । ग्रेवेयका किरीटोद्धे सावशेष विशेषकम् ॥३०॥ राजते च तृतीयेन लोचनेनालकेन च । राजन्ती पीतवासेन छुरितारुण रेणुना ॥३१॥ द्विभुजा या च विशाष्ट तावदोर्दन्डधारिणी । असि खेटक हस्ताभ्यां गदा दण्डेन चापरौ ॥३२॥ शरचापपरेताभ्यां समुद्गर चापरौ । परशु चक्र' धरौ चान्यौ डमरू दर्पण चामरौ ॥३३॥
शक्ति कुण्डधृतौ चान्यौ हल मूषल चापरौं । पाश तोमर चान्यौ तु ढक्कापरणव चापरौ । तजयन्तीव चान्येन कुर्वन्ती कलकलारवैः ॥३४॥ अभयं स्वस्तिकाङ्कन अष्टाविंशभुजा शिवा। सिंह पद्मासना संस्था सिंहासन व्यवस्थिता ॥३५॥ महिषघ्नी शिरश्छेदान्तरं शस्त्रोग्रपाणिनाम् । तजमानं हतं मूनि नागपाशेन वेधितम् ॥३६॥ घातमाना रिपुं देवी पूजनीया पुरन्दर । स्थापिता पूजिता शक्र स्मरता पठतापि वा ॥३७॥
प्रयच्छति शुभान् कामान् मनोऽभीष्टान् यजेन्नरः । पङ्कषु शेल दाव वा मृन्मये वापि वासव ।।३८॥ सोपवासः शुचिः स्नात्वा कामक्रोध विज्जितः । सर्वसङ्गोज्झितः'' प्रीतस्तन्मना भावभावितः ॥३६॥ पुष्प गन्धोपहारश्च हविष्यान्तैरनेकशः । तिल सपियवान् हुत्वा सर्वमङ्गल मन्त्रितान् ॥४०॥
२. वांघन क।
१. महासमत् तौ पानौ वक्तो तौ शुभौ क । ३. मधिशेष क। ४. कल्पना क ।
५. परशु चक्रधरौ क ।
६. शक्ति कुत क। है. पकेष्टे क।
७. शरपक। १०. सतक।
८. स्यद्धृ क। ११. स्यत्रतात् क।