________________
११८
द्वात्रिंशोऽध्यायः
स्थापयेद् देव देवेशं सर्वकामाथिनो'. यदि । विशेषः कथितश्चात्र सर्व कालेऽपि मङ्गला ॥११॥
येन केनचिद् द्रव्येण सर्व काम फलप्रदा ।
तथा ये सिद्ध गन्धर्वा नृपा वा राज्यकांक्षिणः ॥१२॥ ते यजन्तु सदा देवी स्थापयित्वा विधानतः । न तिथिन च नक्षत्रं नोपवासोऽत्र कारणम् ॥१३॥ वयमस्य प्रभावं तु देव्याया भक्तिकारणम् । पूजिता विधिना शक्र नृणां भोगान् प्रयच्छति ॥१४॥ हेम भावा च मृद्वक्षी शैलचित्रायसापि वा । शक्ति शूलेऽजिता देवी सर्वकाम फल प्रदा ॥१५॥
यो यस्य प्रायुधः प्रोक्तस्तस्मिस्तं प्रतिपूजयेत् ।
देवी शक्त्याच्चिता पुंसा राज्यायुः सुतसौख्यदा ॥१६॥ याम्ये ब्रह्मा भवेत् काये रक्त वर्णो जवोपमः । मध्ये रुद्र ऋजुः शुक्रो वामे कृष्णस्ततो हरिः ॥१७॥ देवयक्षग्रहा नागा लोकेशः सचरापराः । शूले संपूजिते वत्स सर्वं भवति पूजितम् ॥१८॥
वाक्षं वा शैलजां वापि रत्नधातुमयामपि । देव्यामेवं समं ऋक्षं वेलाकरणवासरम् ।
विधिना शक दृष्टेण दशबाहु त्रिलोचनाम् ॥१६॥ कारयेद् भक्तिमान् यस्तु देवी शास्त्र विशारदः । सर्वलक्षणसम्पूर्णा सर्वाभरण भूषिताम् ॥२०॥ राजन्तीमुत्तमाङ्गन कवरी लम्बितेन च । अथ मुक्तानि भारेण धम्मिल्ल दंशितेन र ॥२१॥ व्यामिश्र सित पुष्पैर्वा अलिपङ्क तीव संस्थिता । रुदन्ति तमवक्रण तिरस्कृतं निशाकरम् ॥२२॥ अायतैः कर्णमर्यादैस्तरलालोल निर्मलैः । भ्रक्षेपाक्षिधृतैः पक्षः ऋजुः जिह्वावलोकनैः ॥२३॥ भ्रू भङ्ग चाप दण्डेन भिनत्ति दृष्टि सायकैः । मध्योन्नत सगāण अधरेण विराजते ॥२४॥
आरक्ता विद्रुमाभेन स्मितं किञ्चित् स्मितानना । मयूख दन्त ज्योत्स्नेन चकासान्ती तडिदिव ॥२५॥
१. कामान्वितो क। ४. वेलाकरणं वासव क। ६. करवालंक।
२. विधानता क। ३. वर्षमस्य क । ५. श्लोकपंचकं क पुस्तके नास्ति । ७. भिंदतीक।