________________
देवीपुराणम्
तृतीया शिव विघ्नेश दिवसे वत्सरेषु च । महानदी-नद-सङ्ग-पर्वत-स्रवणेषु च ॥११॥ तत्र मन्डप विन्यासं महादाविष्ट निम्मितम् । शैलं वा मृन्मयं वापि कृत्वा वास्तु विभावितम् ॥१२॥ सर्व-लक्षण-सम्पूर्ण सर्व-शोभा-समन्वितम् । पूर्वं च कारयेच्छक पश्चाद् यात्रां प्रचक्रिरे ॥१३॥ महाजनपदोपेतां महास्त्री-सङ घ-संकुलाम् । सन्नि -याव-नैवेद्य : समस्तैरपि पूजयेत् ॥१४॥ दद्याच्च दिग्वलि शक्र सादिक्षु समन्वितः१ । भूत-वेताल-सङ घस्य मन्त्रेणानेन सुव्रत ॥१५॥ जय त्वं कालि भूतेशी सर्व-भूत-समावृते । रक्ष मां निज भूतेभ्यो वलि गृह शिवप्रिये २ ॥१६॥ मातर्माते वरे दुर्गे सर्व-कामार्थ-साधिनि । अनेन बलिदानेन सर्वान् कामान् प्रयच्छ मे१४ ॥१७॥ एवं दत्त्वा वलि शक ततो'५ देव्यावतारयेत् । विन्यसेद्भद्रपीठेतु मण्डलैरूपशोभितम् ॥१८॥ तत्रस्थां पूजयेद् देवी हैम रौप्यश्च ताम्रजः। कलसैस्तु सहस्रण गन्धोदक-सु पूरितः ॥१६॥ समस्त-फल-सम्पूर्णर्याज्ञियैरथ पल्लवैः । स्नापयेदेकमेकेन रत्नगर्भनवै दृढः ॥२०॥ वेद-मङ्गल-शब्देन शङ्ख-वादित्र निस्वनैः । वेणु-वीणा-मृदङ्ग श्च घण्टा-किङ्किणीरावृत'६ ॥२१॥ स्नापयित्वा ततो देवी भूषयेद् दुकुलैः १७ शुभैः । गोमयादिकृतैः पद्म दौंपवत्यैः विरोधितैः ॥२२॥
स्वस्तिक नन्दिकावतैः शङ्खर्नीलोत्पलोत्पलैः१८ ।
यव शालाङ्कुरोद्भिन्नैर्यव-वास-समन्वितैः१६ ॥२३॥ प्रत्येकं तु ददेद्भूयं प्रत्येकं कलशैः स्नपेत् । तथा कर्पूरक्षोदेन चन्दनः२ कुङ्क मेन च ॥२४॥ गोरोचना समेतेन देवोमालिप्य पूजयेत् । हेमजर्जातिजर्माल्यैः रत्नन्यासैरनेकधा ॥२५॥
वासोभिः सुमनश्चित्रैः पुनधूपं समुक्षिपेत्२१ । भक्षयेत् तु२२ तथा कन्यां द्विजान दीनान् सुदुःखितान्२३ ॥२६॥
१. मृत्यवेषु क। २. महानद नदी क !
३. भद्र क। ४. विनासं क। ५. कृलवासक्त क ।
६. विभागवित का ७. सपरं क।
८. सहास्त्री संकुला क । ६. समस्तैराये क। १० दौव्वरि ग्वलिं शक्र सर्व दिक्षि समंतता क।
११. समाबृतो क। १२. ग्छहसदा प्रिये क। १३. सर्व क। १४. प्रयच्छमे क। १५. प्रथा क । १६. रावित क।
१७. मज्जे द्वंद्व कैः शुभैः क। १८. नीलोत्पलैः क। . १६. यव साल्यं कुरोद्भिन्निमजयेत् क ।
२०. चन्दनं क । २१. समंज्ञियेत् क। २२. दक्षयेत् क।
२३. दीनी तु दुःखितात् क ।