________________
एकत्रिंशोऽध्यायः
भक्त भोज्यानतपानेन तत्र सर्व्वाश्च प्रीणयेत् । भोजयित्वा' क्षमायेत देवी मे प्रीयतामिति ॥२७॥ तथा देव्या रथे कृत्वा पुनरेव गृहं नयेत् । शान्त- रेणु-पथं सव्वं पुष्प - दूर्वाक्षतैर्जलैः ॥ २८ ॥ प्रक्षिप्यमाणैः कन्याभिः स्त्रीभिः मङ्गलवादिभिः ।
२
सलिलेन पथि पांशु कृत्वा पङ्क प्रचक्रिरे ॥२६॥
पुरशोभां पथि शोभां द्वारशोभां गृहे गृहे । कारयोत तथा शक्र सर्व्ववाधां निवारयेत् ॥३०॥ श्रच्छेद्यास्तरवस्तस्मिन् प्राणिहिंसा विवर्जयेत् । वन्धनस्था विमोक्तव्या ' वध्या क्रोधादि शत्रवः ॥ ३१ ॥ अकाल कौमुदीं शक्र रथयात्रान्ते कारयेत् । सर्व्वदा सर्व्वदेवैस्तु शङ्कराद्यः प्रतिष्ठिता ॥ ३२॥ रथ यात्रा तदा शक्र सुरैः स्वर्गे सदा कृता । तथा किन्नर - गन्धर्वैः भू-पाताल निवासिभिः ||३३|| रथ यात्रा प्रभावेण मोदन्ते दिवि देवताः । श्रादित्यो रथयात्राकृद्रथेन नभसः क्रमेत् ॥३४॥ देवा दिव्य - विमानस्था रथयात्रा प्रभावतः । क्रीडन्ते विविधैर्भोगैः सर्वातङ्क विवर्जिताः ||३५|| तथा त्वमपि देवेन्द्र रथयात्रा - करोभव । शिवायाः शिवदातायाः परमेन समाधिना ॥३६॥
११६
अगस्त्य उवाच ।
रथ-यात्राश्रितं पुण्यं १२ ब्रह्मणा वासवस्य तु । पूर्व्वं यत् कथितं तात ते ते सर्व्वं मयाखिलम् । ३७ ख्यापितं नात्र सन्देहो देवी माहात्म्यमुत्तमम् । यः पठेत् शृणुयाद्वापि भक्तिमान् नृपसत्तम ॥ ३८ ॥ स सुखं यशः सौभाग्यं पुत्र प्राप्ति यथेप्सिताम् । लभते नात्र सन्देह इत्येवं ब्रह्मणोऽब्रवीत् ॥३६॥ सुवलेन कृते राज्ये पुरा शक्रस्य कोर्तिता । धनदस्य पुरा प्रोक्ता वरुरणस्य च वायुना ॥ ४० ॥ कृते स्थाने कृतानेन तथा श्रुत्वा च निर्ऋतैः । भुञ्जीत' परया दृष्टया पुरो भगवती शुभा । ४१ । इति श्री देवीपुराणे रथयात्रा विधिमाहात्म्यं नामैकत्रिंशोऽध्यायः १४ 1
२. पुनरेव गृहश्येत क ।
५. पथे क ।
०
१. भाजयिला क ।
४. वाहिभिः क ।
७. शिवारघेत् क।
८. बंधनस्त्वापि तथा मोक्तव्या क ।
१०. सवतिक क ।
१३. भुजजे क ।
३. क पुस्तके नास्ति ।
६. कारयात क ।
६. सदाहुता क ।
१२. ब्राह्मरण क |
११. क पुस्तके नास्ति १४. रथयात्राविधिमाहात्म्य क । १५. एष अध्याय ग पुस्तके नास्ति ।
*