________________
एकत्रिंशोऽध्यायः।
ब्रह्मोवाच । भूयस्ते' संप्रवक्ष्यामि देव्याराधनमुत्तमम् ।
यत् कृत्वा सर्व कामाणां व्याप्तिः तृप्ति भविष्यति ॥१॥ दन्तिदन्तमयैर्दन्डै हमवद्धः सुशोभनैः । विचित्र-पद्मरागाद्य मणिभिरूपशोभितैः ॥२॥ रथं तैः कारयेद् देव्याः सप्तभौमं मनोहरम् । दुकुल वस्त्र संच्छनमर्द्धचन्द्रोप्यशोभितम् ॥३॥ घण्टा किङ्किणी शब्दोद्य चामरैः कन्दुकान्वितैः । पताकाध्वजशोभाढ्यं दर्पणरूपशोभितम् ।४। तं रथं पूजयेच्छक जाती-कुसुम-मन्दकैः पारिजातसु पुष्पैश्च रक्त कर्दम चन्दनः ॥५॥ सुगन्धि धूपितं कृत्वा' देवीं तत्र निवेशयेत् । प्रतिमां शोभनां वत्स महासुर-क्षयङ्करीम्११ ॥६॥ पूजयेद्रथविन्यस्तां सर्वमङ्गलमङ्गलाम् । दुर्गा कात्यायनी देवी वरदा विन्ध्यवासिनी१२ ॥७॥
निशुम्भ-शुम्भ-मथनी महिषासुरघातिनी । उमा क्षमावती माता शङ्करस्यार्द्ध-कायिका ॥८॥ प्रसीदतु सदा मेऽस्तु यच्च नो वाञ्छितं हृदि ।
अनेन वलि पूर्वेण१४ नमस्कार युतेन च ॥६॥ पूजायत्वा' - तता नैषा समस्ताप्सरगीतकैः । पञ्चमी सप्तमी पूर्णा नवम्येकादशीषु च ॥१०॥
१. भ्वयंते क। २. व्याप्ति ख।
३. हेमवंधा क। ४. मनोरम क। ५. कंटुकाचितं क ।
६. शोभातं क। ७. नास्ति क पुस्तके ८. पूजयछंक ताती कुसुमलिप्तैः क । ६. परिजात ख। १०. कृला क।
११. पंकरी क। १२. विध्यवासिदतु सदा नेस्क्त य घनोहदिवांछितं क ।
१३. नास्ति क पुस्तके । १४ बल पूर्वेण क।
१५. पूजयित्वा क।