SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् अच्र्चते तत्र संप्राप्तं तेन सूर्य्यत्वमुत्तमम् । मुक्ताफलमयीं देवीं सोमः पूजयते सदा ॥ १३ ॥ तेन सोमेन सोमत्वं' संप्राप्तं सततोज्ज्वलम् । प्रवालकमयों देवीं यजन्ते गुह्यकादयः ॥ १४॥ तेन भोगबलोपेताः प्रयान्तोश्वर मन्दिरम् । वज्रलोह - मयीं देवीं यजन्ते मातरः सदा ॥ १५॥ मातृत्वं प्राप्य ताः सर्व्वाः प्रयान्ति परमं पदम् । एवं देवाः सगन्धर्व्वाः पिशाचोरणराक्षसाः । १६ । पूजयन्ति सदाकालं चच्चिकां सुरनायिकाम् । तथा त्वमपि देवेन्द्र यदीप्ससि परां गतिम् ॥१७॥ शिवां मणिमयां पूज्य लभसे मनसेप्सितान् । कामान् सुरवराध्यक्ष कामिकैः पूजिता सदा । ददाति सर्व्वलोकानां चिन्तामणिर्यथा शिवा ॥ १८ ॥ इति श्री देवीपुराणे द्रव्य - विधि- पूजा - देवीमाहात्म्यं नाम त्रिंशोऽध्यायः ७ । १. संप्राप्त सोम क । ३. २. पतगोत्तमा क । तेन नागास्तु भोगाद्याः प्रयात्यंते परं पदम् । कृष्णायसमयीं देवी पूजयन्त्युत्तरोत्तमाः । राक्षसाश्च महात्मानो तेन ते सितविक्रमाः । प्रयूसीसमयीं देवीं पिशाचाः पूजयंति ताम् ॥ तेन ऋद्धि वलोपेताः प्रयांति परमं पदम् । त्रैलोहकी सदा देवीं यजते गुह्यकादयः 1 ४. नरं देवी क । ५. पिशोचोरगरोल्लसा क । ६. कामक । ७. इत्याद्य देवीपुराणे द्रव्य - विधि- पूजा देवी माहात्म्यम् । एष अध्यायः ग पुस्तके नास्ति । ११३
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy