SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ त्रिंशोऽध्याय: । ब्रह्मोवाच । शृणु तस्या सुराध्यक्ष प्राराधन-विधि पराम् । यथा सा तोषिता पूर्व्वं शङ्कराद्यैः फलैप्सुभिः ॥१॥ कर्म-यज्ञ ेन देवेश तथा त्वामपि पूजयेः । शम्भुः पूजयते देवीं मन्त्र शक्तिमयां शुभाम् ॥२॥ अक्षमालाकरो नित्यं तेनासौ विभववान्नरः । श्रहं शैलमयीं देवीं यजामि सुरसत्तम ॥३॥ तेन ब्रह्मत्वमेवेदं मया प्राप्तं सुदुर्लभम् । इन्द्रनीलमयीं देवीं विष्णुरच्चयते सदा ॥४॥ विष्णुत्वं प्राप्तवांस्तेन श्रद्ध तैः कंसनाशनाम् । देवीं हेममयी कान्तां धनदोऽर्चयते सदा ॥५॥ तेनासौ धनदो देवो धनेशत्वमवाप्नुयात् । विश्वेदेवा महात्मानो रौप्यां देवीं मनोहराम् ॥६॥ जति विधिवद्भक्त्या तेन विश्वत्त्वमाप्नुयुः । वायुः पूजयते भक्त्या देवीं पित्तलसम्भवाम् ||७|| वायुत्वं तेन तत् प्राप्तमनौपम्य गुणावहम् । वसवः कामिकां देवीं पूजयन्ते विधानतः ॥ ८ ॥ प्राप्नुवस्तन्महात्मानो वसुत्वं हि शुभावहम् । १. सेन्द्र क । ३. वरुणोऽचयते सदा क श्विनौ पार्थिवीं देव पूजयेत विधानतः ॥ ॥ तेन तावश्विनौ देवौ दिव्य-देह - गतावुभौ । स्फाटिकां शोभनां देवीं वरुणोऽच्र्चयते सदा ॥१०॥ वरुणत्वं हि संप्राप्तं तेन ऋद्धया समन्वितम् । देवीं मन्त्रमयीं पुण्यामग्निर्यजते भावितः ॥ ११॥ अग्नित्वं प्राप्तवांस्तेन तेजोरूपसमन्वितम् । ताम्रां देवीं सदा काल भक्त्या देवो दिवाकरः ॥ १२॥ २. पनोरमाम् क। ४. कपुस्तके नास्ति ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy