________________
देवीपुराणम्
१११
ईक्षते मन्त्ररूपेण सूर्यस्य इव रश्मयः । सा च वर्ण क्रमाद्भूता द्विजाति ब्रह्मचारिणी ॥१४॥
सङ्कर' प्रभावाणाञ्च वर्णानां करणे स्थिता। प्राविक्षिकी त्रयी वात दण्डाख्या सा च कीर्तिता ॥१५॥ दीप्तिः सूर्ये क्षमा भूमौ कान्तिश्चन्द्र जले प्लुति' ।
ज्वाला वह्नो गतिर्वायौ व्योम्नि सा व्यापिनी भवेत् ॥१६॥ यजमाने तथा दीक्षा धारणा योगिनामपि । प्रज्ञा प्रज्ञावतां सा तु वाग्मिनान्तु सरस्वती ॥१७॥ लक्ष्मी सा तु धनाढ्यानां सिद्धि सिद्धिप्सूनानपि । दया दयावती सातु प्रीति प्रीतिमतामपि ॥१८॥ शरा खड्गे ज्याधनुषि शब्दो वायेषु सा स्मृता । परस्य सा परत्वेन शिवस्य शिवगामिनी ॥१९॥
भक्ति मुक्ति प्रदा देवी ब्रह्मादीनान्तु सा मता ॥२०॥ इति श्री देवीपुराणे व्याप्ति प्रशंसा नाम एकोनत्रिंशोऽध्यायः ।
१. शंकर क। ४. शिवगेंसिना क।
२. जसे ह्वाति क। ३. शब्दो राज्येषु सा स्मृता क । ५. इत्याद्य देवीपुराणे व्याप्ति प्रशंसा क ।