________________
एकोनत्रिंशोऽध्यायः ।
शक्र उवाच ।
एवं सर्व्वप्रदा देवी यथा नाथ प्रवणिता । तस्याहं श्रोतुमिच्छामि व्याख्याराधनपूजनम् ॥१॥ ब्रह्मोवाच ।
न परा चापरा देवी पूर्वं वा च पुरन्दरम् । तस्यास्त्वं भक्तिमापन्नः कथनादेव वासव ॥२॥ यदा सद्भावता तस्या व्याप्तिभावेन विद्यते । तदा त्वं सुरराजेन्द्र शृणुष्वेकमनोधुना' ॥३॥ एक एव पराशक्तिः सर्व्वगा व्यापिनी किल । स्वभावात् कर्तृ रूपत्वात् भूतार्थः पञ्चधा स्थिता | ४ | भूत तन्मात्र बुद्धाख्य कर्म्मवर्ग मनोधिषु । श्रहङ्कार प्रधानेन प्रभावात् सा व्यवस्थिता ॥५॥ हेमन्तु महद्दण्डं सहस्र किरणोज्वलम् । तप्तहाटक-सङ्काशं कोट्यायुतसमप्रभम् ॥६॥ शतकोटि प्रविस्तीर्णं समन्तात् परिवर्तनम् । तञ्च वर्षं सहस्र ेण द्विधाभूतं पुनस्ततः ॥७॥ मध्ये तस्याभवद् ब्रह्मा चन्द्र-सूर्येक्षणो विभुः । सकलं भू दिवं भूत खं दिशो मनौगोचरम् ॥८॥ स सिसृक्षु प्रजाः सर्व्वास्तदादेशेन वासव । स एव स्थितये विष्णुविनाशे रुद्रः सोभवत् ॥६॥ स्थावरस्य चरस्यास्य दृश्यादृश्यस्य वासव । जरायुजान्डज स्वेदानामुद्भिदानां तथैव च ॥ १०॥ नगानद समुद्राणां विशेषे तद्भवोऽभवत् । विद्यावेदन वेदानां वाञ्जनी जननी तथा ॥११॥ माता मातृक भेदेन व भेदेन सा स्थिता । मन्त्र-तन्त्र- क्रिया - मुद्रा विष-भूत-ज्वरादिषु ॥१२॥ अन्यापि तत् प्रभावेण शमन्ते भिषजो रुजः । न च वर्णान्तराभावा श्राश्रमाणां क्रियास्तथा ॥१३॥
१. शृणुष्व कमलामुता क ।
२. किरणोज्वलम् ।
५. तत पुन क ।
४. समन्ता ये विर्हणं क । ६. स न व स्थितं यो विहतो विनाशे रुद्र सोमवत् क ।
३. शशि क ।