________________
देवीपुराणम् ।
वैशाख्यान्तु प्रदातव्या ज्येष्ठां ज्येष्ठस्य सत्तम' । आषाढे द्वादशी होमं अष्टमी पूर्णिमा नभे ॥३२॥ नभस्ये रोहिणी वत्स चतुर्थ्यां स्कन्दजे दिने । संक्रान्तिषु च सर्वासु गुरुसौरि भवासु च ॥३३॥ चन्द्र-सूर्योपरागेषु प्रतिष्ठा यज्ञ-कर्मणि ।
शक्रोच्छ्रये प्रदातव्या जन्मपुष्याभिषेचने ॥३४॥ मार्गे व्रतनिबन्धे तु शुभे वा केतुदर्शने । ग्रहकृत्योपसर्गेषु धारा देया शुभावहा ॥३५॥ एवं यो वाहयेद् धारां शास्त्र दृष्ट न कर्मणा । तस्य भूः सिध्यते सर्वा सनागा सहसागरा ॥३६॥ अश्वमेधसमं पुण्यं दिनहोमात् प्रजायते। वाजपेयशतं रात्रावग्निष्टोमशतं तथा ॥३७॥ प्राधयो व्याधयस्तस्य न भवन्ति कदाचन । आयुरारोग्यमैश्वर्यमिह चान्ते शिवी भवेत् ॥३८॥
इति श्री देवीपुराणे वसोर्धारादानविधिर्नाम सप्तविंशोऽध्यायः ।
.
१. सत्तमा क। . ४. वाते शिवा भवेत्र क।
,
२. क पुस्तके नास्ति । ५. इत्याद्ये देवीपुराणे वसोर्धारा समाप्ता क ग।