________________
सप्तविंशोऽध्यायः
घृतक्षौद्र पयोधारा सर्वपीडा निवारिणी। गुड्वीश-कलोमं सहकारदलैः शुभैः ॥१४॥ अश्वत्था मालती दूर्वा आयुरारोग्यपुत्रदा । सौभाग्यश्च श्रियं' देवी प्रयच्छत्यविचारणात् ॥१५॥ अर्कादि वा शुभा वत्स सफला सर्वकामिका । होतव्या सर्वकालन्तु मातरादविच्छेदिनी ॥१६॥ सर्वकालं वृतं प्रोक्त निमित्ते चात्मवित्तमः । विशुद्धि सर्पिषा यानि तानि नात्र विचारयेत् ॥१७॥ ज्वाला वर्ण शुभं गन्धं सर्वहोमेषु लक्षयेत् । संयतो संयताहारैः सर्वशास्त्रार्थपारगः ॥१८॥ जप होमरतैर्भूप धारा देया च तद्विदैः । पाषन्ड विकलान् लुब्धान् धर्मापेतान् असंयतान् ॥१६॥ सर्वकाल-प्रदायी तु न वदेन्नावलोकयेत् । मृत्युञ्जयं महातत्त्वं चतुः सप्ताष्ट जापिना ॥२०॥
भाव्यं वै नित्यहोमे तु अन्यथा विफलं भवेत् ।
सामान्या या भवेद्धारा तस्मिन् जप्यं शतं शतम् ॥२१॥ प्रातमध्याह ण-सन्ध्यासु सर्वकाम-समृद्धये । वसु-द्रव्यं घृतमाज्यममृतं हविः कामिकम् ॥२३॥ तस्य धारा सदा देया वसोर्द्वारा हि सा मता । वसुना स्वर्ग-कामेण दक्षेण च महात्मना ॥२३॥ मया च विष्णुना शक्र रुद्र ण च सहोमया । आत्मानञ्च स्वरूपेण धारायान्तु प्रदापयेत् ॥२४॥ देवी सान्निध्यमायाता सर्वकाम-प्रदायिका । तस्मात्त्वमपि राजेन्द्र वसोर्धारां प्रपातय ॥२५॥ नातः परतरं पुण्यं विद्यते नृप-सत्तम । वसोर्धारा प्रदानस्य एकाहमपि यद्भवेत् ॥२६॥ . नृपेणायुषकामेण पुत्रदारसुखार्थिना । देया धारा सदा वत्स रिपुनाशाय बुद्धिना' ॥२७॥ विच्छेदो नित्य-होमस्य न च कार्य कदाचन । महादोषमवाप्नोति ये तत्र विमुखाः नराः ॥२८॥ द्रव्याभावे घृताभावे नृपतस्करजे भये । यदि नो वहते धारा तदाच्छिद्र न विद्यते ॥२६॥ होमं कृत्वा क्षमावेत देवदेवीं नृपोत्तम । पुनः प्राप्तौ भवेदहोमं प्रतिष्ठा विधिचोदितम् ॥३०॥ महा आश्विन मासे तु अष्टमी नवमीषु च । कार्तिक्यां माघचत्रे तु चित्रायां' रोहिणीषु च ॥३१॥
१. प्रियं क ग। २. सकला हस कामिका क । ५. सर्वकामेण क ग। ८. बुद्धिमान क ग १०. पिऋतुछिद्रायां क।
३. चार्थ क ग। ४. विकलं क ग । ६. प्रपातितम क ग। ७. नपेण पुत्र राज्य जिगिषुणा क ग । ६. गवामेत ये तत्र विमुखा सुरा क ग ।