________________
अष्टाविंशोऽध्यायः।
अगस्त्य उवाच।
शूलिनो ब्रह्मणा प्राप्तमिन्द्राच्च मम पागतम् । मयापि ते यथा वृत्तं तथा राजन् प्रकाशितम् ।। ब्रह्म विष्णु शिवानाञ्च' महाभय विमोक्षदम् । मन्त्रितं शक्र-गोविन्द-वाचस्पति-पितामहैः ॥२॥ रुद्रस्तोत्रं महादेव्या विष्ण्वाराधन-घोरजम् । वधं महिषरूपस्य भूमौ देव्यवतारणम् ॥३॥ व्रतं वजोच्छ्रयं धारा मङ्गलेषु पठेत् सदा । देव्यायतने देवस्य शङ्करस्य हरेरपि ॥४॥
गोष्ठे वा चव्वरे शैले गृहे वा सुमनोरमे । देवी सम्पूजयित्वा तु भोजयित्वा कुमारिकाः ॥५॥ तद्भक्ति भावितान् विप्रान्-सद्वृत्ताञ्छास्त्रतत्परान् । यथाशक्त्या च पूज्येत् हेमवस्त्रविभूषणे ॥६॥ ततस्तान् स्वस्ति वाचयित्वा पूजयित्वा तु पुस्तकम् ।
सुगन्ध-गन्ध-धूपेन पुप्पमाल्यैः सुचन्दनः ॥७॥ घण्टाचामरशोभाढ्यै दर्पणरूपशोभिते । दुकूले वस्त्राभरणे दण्डयन्त्रे निवेशयेत् ॥८॥ वाचकं पूजयित्वा तु यथाविभवविस्तरैः । वाचयेत् ततो राजा देवी माहात्म्यमुत्तमम् ॥६॥ तदन्ते शान्ति शव्दस्तु जनस्य स नृपस्य च । गो ब्राह्मण पूजानान्तु वनस्पति मुखेषु च ॥१०॥ क्षत्र-विट्-शूद्र-बालानां सर्वमेव शुभं तु वः । अनेन विधिना राजा यः पठेत् शृणुयादपि ॥११॥ चिन्तयेद् वाचयेद् वापि तस्य पुण्यफलं शृणु । अश्वमेध सहस्रस्य वाजपेयशतस्य च ॥१२॥॥
१. सुराणं च क। ४. दत्ते क।
२. यथा क ग। ३. मारिका क। ५. इत परं ग पुस्तके नास्ति ।