SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०२ देवीपुराणम् उद्देशं किञ्चिदत्रापि कथयामि नृपोत्तम । समायन ऋतुर्मास पक्षाहोरात्र पूर्ववत् ॥१३॥ लग्नादि विशोधयेद् वत्स सर्वकाम प्रदा यथा । क्षणिकेषु च कार्येषु भक्तियुक्त' क्षणे शुभे ॥१४॥ क्षणं देवी च द्रष्टव्या यथा सर्वगता शिवा । तत्त्वभूता ग्रहा नागास्त्रिगुणापि शिवा गुणाः ॥१५॥ नित्ये नैमित्तिके होमे मन्त्रयोगेन दापयेत् । यो यस्य भक्तिमासक्तस्तस्य कुर्यात् तु सन्निधिन् ॥१६॥ सग्रहान् लोकपालास्तु मातरा भुजगं पिवा। कल्पयेत् सर्वहोमेषु देवी एतर्व्यवस्थिता ॥१७॥ स्थूलरूपा तु तैस्तुष्टस्तुष्टा देवी महाफला। कालादिबलि गन्धादि प्रतिष्ठावच्च कारयेत् ॥१८॥ यदा सम्पत्ति सम्पन्नः सर्वकाले प्रदापयेत् । तदा मन्त्र-ग्रह-भूतान् लोकपालान् निवेशयेत् ॥१६॥ हैम राजत ताम्रा वा सुनिवे शोपलक्षिता । वस्त्र पुष्पवलिर्गन्धदक्षिणादि यथाक्रमम् ॥२०॥ मातरं लोकपालानां ग्रहाणाञ्च यथाविधि । हृदयेन प्रदेयन्तु मूलमन्त्रः पुरातनः ॥२१॥ प्रथवा सर्वसामान्यां वैदिकामपि कारयेत् । अथर्व विधिना वत्स पूर्वोक्ता वा यथा पुरा ॥२२॥ प्रभूत-मन्त्र-नैवेद्य भूरि-दक्षिण-संयुतः । कुर्य्यान्महाप्रयत्नेन अन्यथा न कथञ्चन ॥२३॥ छेदे भयं विजानीयात् तदर्थ तन्न कारयेत्। सहस्राहुति होमेन यत्र तत्र निवेशयेत् ॥२४॥ मूल मन्त्रेण देव्यायाः शृंखला हृदयेन तु। घृतञ्च शिरोमन्त्रेण शिखायां तत्र पातयेत् ॥२५॥ कवचेन तथा वह्नि रक्षयित्वा प्रदापयेत् । अश्वमेधेन मन्त्रण सवं सर्वासु निक्षिपेत्११ ॥२६॥ १. भक्तियुक्त य । ३. कालादिवनि क ग। ५. संपर क. ७. बाल क। ६. विजायात् क। ११. सर्व सास्त्र निक्षिपेत् क । २. तद्भूता ग्रहा नागा क ग । ४. तदा क ग । ६. इमा क ग। ८. वणं क। १०. क पुस्तके नास्ति।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy