________________
षडविंशोऽध्यायः
लोकपालान्' ग्रहान्-नागान् द्वादशार्द्धन पूजयेत् । ।
शिवाद्यान् सनकाद्यांश्च देवाद्यानपि पूजयेत् ॥२७॥ नित्येषु च महा प्राज्ञ नैमित्तेषु विशेषतः । पञ्चकानि च सप्तादि नवकानि क्रियादिकः ॥२८॥
अग्रे वर्णाश्च गन्धश्च शब्दाश्चाकृतयस्तथा ।
विकाराश्च तथा' वत्स बोद्धव्याः सिद्ध यसिद्धिदाः ॥२६॥ तदन्ते च स्तवं कार्य सर्वकामप्रदायकम् । येन सान्निध्यमायाति सर्वहोमेषु मङ्गला ॥३०॥ सहस्राच्चि महातेजा नमस्ते बहुरूपिणे । नीलकण्ठ शितिकण्ठ पीतवासाय पावने ॥३१॥ स्र वमेखलधाराय ब्रह्मणे दहने नमः । सर्वाशिने सद्धभत्रं पावकाय नमो नमः ॥३२॥ दुर्गाय उमारूपाय स्त्रीलिङ्गाय सुतेजसे । वसु अश्विनरूपाय सर्वाहाराय वै नमः ॥३३॥
त्वं रुद्र घोरकर्मासि घोरहा परमेश्वरः ।
विष्णुस्तवं जगतां पालो' ब्रह्मा सृष्टिकरः स्मृतः ॥३४॥ त्वञ्च सर्वार्थको देव यमाय पिशिताशिने । वरुणानिलाय सोमाय ईशदेवाय वै नमः ॥३५॥ सूर्याय चात्रिपुत्राय भू सुताय बुधाय च । बृहस्पतये शुक्राय शनि राहोऽथ केतवे ॥३६॥ सर्वगे ग्रहरूपाय व्याल मातङ्ग रूपिणे । वृष्टि सृष्टि स्थितिभूति काय वरदाय च ॥३७॥
नमस्ते स्कन्द मातस्त्वं पित्र चापि नमो नमः ।
कुण्डे वा मण्डले वापि स्थंडिले वापि त्वं विभो ॥३८॥ महानसे वा त्वां देव हुत्वा इष्टं लभेन्नरः । घृत-क्षीर-रस-धान्य-तिल-ब्रीहि-यवान् कुशान् ॥३६॥ भावादभावतो वापि सततं होमयेदनले । एवं विधिविहीनोऽपि नरो विगतकिल्विषः ॥४०॥ कि पुननित्यहोमं तु बसोर्द्धारा हुताशने । सर्व मङ्गल मन्त्रेण पूर्णाहुति प्रदापयेत् ॥४१॥ लोकपाल ग्रहाणां तु ओंकारेण नमोऽतिकैः । स्वः स्वमन्त्रैस्तु शेषाणां होमं कार्यं नृपोत्तम ॥४२॥
१. लोलाकपाल क। २. व पथा क। ४. नीलक। ६. देव लोकपाल ततस्थित क इन्द्रा पवाये क । ८. यवं क ग।
३. तथा राश्चतथा क । ५. जगत्पालोसि क ग । ७. वाल्य ख । ६. भावाय भावतो वापि ख ।