________________
षड्विंशोऽध्यायः ।
ब्रह्मोवाच ।
सदैवं सग्रहं कार्य्यमथवा देव तोरणम्' । तस्य मध्ये भवेत् कुण्डं हस्तादिलक्षणान्वितम् ॥१॥ चतुष्कमथ वृत्तं वा पङ्कजाकृति चाथ वा । पृथिवी जयदं शक्र वृत्तं कामफलप्रदम् ॥२॥ पङ्कजे जयमारोग्यं योग - ज्ञान- प्रदायकम् । शेषाः कार्यविभागेन कुण्डाः कार्य्या विजानता ॥३॥ सामान्यं सर्व्वहोमेषु शक्र कुण्डं वरोत्तमम् । विस्तारं खाततुल्यन्तु मेखलैस्त्रिभिर्भूषितम् ॥४॥ चत्वारि त्रीणि द्वे कुर्य्यादङ्ग ुलं कुण्डमानतः । द्विगुणान् द्विगुणे कुण्डे होम मात्रेण कारयेत् ॥५॥
एवं संसाधयेद्विप्रस्तुतः पात्रं सशृंखलम् । हैमं वा राजतं वापि ताम्रं वा लक्षणान्वितम् ॥ ६ ॥ चत्वारि कटकोपेतमयः शृंखल संग्रहम् । तस्य मध्ये भवेद्रन्ध्र कर्णार्द्धस्य शलाकया ॥७॥ होमोत्थया प्रमाणेन चतुरङ गुलमानया । धृतनिष्क्रमरणार्थाय कुर्य्यात् सम्यक् विपश्चितः ॥८॥ पलैर्दशभिरर्द्धान्यैर्नान्येकान्तु मया ब्रजेत् । पञ्चभिस्तु शतैर्होमः सप्तत्या च षडस्त्रया ॥ ॥ यथा पूर्णा ब्रजेद् वत्स तथा कुर्य्यान्न चान्यथा । हस्तमात्र भवेद् हैमं शृंखलं भुजगाकृति ॥ १०॥ सूत्रनिबद्धञ्च प्रवलम्ब्य अधस्तनम् । र्माणि वा पङ्कजं पात्रमाश्वत्थं कारयेत् तले ॥११॥ एवं कार्य्यनुरूपेण द्विगुणं त्रिगुणं पिवा ।
कुर्य्यात् पात्रं धृतं वेधं प्रतिष्ठा विधिवोदितम् ॥१२॥
१. देवतैः समं क ग । ४. सारेण ग ।
७. श्रृंखलं च भुजा कृति ग ।
६. सर्वकाल प्रदो यदा क ।
२. दंशाकं कुडं वरो शास्त्रं ग ।
५. चतुर्भि क ग ।
८. देवि क ।
ε
३. शाक क ग ।
६. रत्नम् ग ।