SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् भानोः प्रजापतेर्वापि वसोर्धारा गृहे भवेत् । चिरन्तनेषु' सिद्धेषु स्वयं वा संस्कृतेषु च । पर्वतेषु च दिव्येषु नदीनां सङ्गमेषु च ॥१५॥ गुहासु च विचित्रासु गृहगर्भेषु भूमिषु' । दत्त्वा समोहितान् कामान् विधिना लभते नृपः ॥१६॥ अथ सामान्यतो गेहं समसूत्रं जनोन्मुखम् । वास्तुसंशुद्धि-विन्यासमेकादशकरं परम् ॥१७॥ त्रीणि पञ्चाथ सप्ता वा दश वा नव कारयेत् । विशकं वा बहुनां वात्रिंशदूध वं न कारयेत् ॥१८॥ पक्वेष्टं शैलदा वा सलिङ्ग सहतोरणम् । पञ्च सप्त नवास्यं वा गवाक्षक विभूषितम् ॥१६॥ सर्वतो भद्रविन्यस्तं क्रम वृद्ध्याविवक्षितम् । ऊर्ध्वधूमस्य निष्कासं सप्रकाशं विशेषतः ॥२०॥ इति श्री देवीपुराणे तोरणविधिर्नाम पञ्चविंशोऽध्यायः । १. पंक्तिरियं नास्ति क ग पुस्तके । ३. सर्वेषु क। ५. वक्त संशुद्ध क। ७. भावन्यूनं क। ६. नव वा क ग । २. चिरंतनिषू क। - ४. लभ्यते क| ६. पंचाथ वा सप्त दशवा नव कारयेत क। ८. पष्ठाङ्क ख । १०. पाद्य देव्यवतारे शरणविधिः क ग।'
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy